Enter your Email Address to subscribe to our newsletters

मदुरैनगरम्, ०१ मार्चमास: (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी रविवासरे तमिलनाडु–राज्यस्य मदुरैनगरे ४,४०० कोटि–रूप्यकात् अधिक–मूल्यानां विविध–अवसंरचना–परियोजनानां लोकार्पणं शिलान्यासं च कृतवान्। अस्मिन् अवसरे स: अवदत् यत् उच्च–गुणवत्तायुक्ता आधारभूत–संरचना केवलं निर्माण–कार्ये न सीमिता, अपि तु जनान् सशक्तीकृत्य सम्पर्क–सौविध्यं सुदृढयति, अर्थव्यवस्थायै वेगं ददाति, यूनां कृते नूतनान् रोजगार–अवसरान् सृजति च।प्रधानमन्त्री स्वीय–सम्बोधने अवदत् यत् गतद्वादश–वर्षेषु केन्द्र–सर्वकारेण तमिलनाडु–राज्यस्य राष्ट्रीय–राजमार्ग–जालस्य विकासाय व्यापकः निवेशः कृतः। २०१४ तमे वर्षे अनन्तरं राज्ये ४,००० कि.मी. अधिक–दीर्घतायुक्तानां राष्ट्रीय–राजमार्गाणां निर्माणं सम्पन्नं, येन औद्योगिक–व्यापारिक–क्रियाकलापाः सुदृढीकृताः। उत्तम–मार्ग–सम्पर्केण कृषि–तथा समुद्री–उत्पादानां परिवहने शीघ्रता भविष्यति, स्थानीय–अर्थव्यवस्थायाश्च लाभः स्यात् इति स अवदत्।
प्रधानमन्त्री अवदत् यत् गत–दशके भारतीय–रेलमार्गे ऐतिहासिकानि परिवर्तनानि अभवन्। २००९–२०१४ मध्ये यत्र वार्षिक–सामान्य–विनियोगः ८८० कोटि–रूप्यकाणि आसीत्, तत्र २०२६–२७ तमे वर्षे स: ७,६०० कोटि–रूप्यकाणि अभवत्। राज्ये १,३०० कि.मी. अधिक–दीर्घतायुक्ताः नूतन–रेल–रेखाः स्थापिताः सन्ति, ९७ प्रतिशतं रेल–मार्गाणां विद्युतीकरणं च सम्पन्नम्।
स: अवदत् यत् अधुना तमिलनाडु–राज्ये ९ ‘वन्दे भारत’ तथा ९ ‘अमृत भारत’ रेलयानानि सञ्चालितानि सन्ति, येषां कोचाः चेन्नई–स्थिते ‘इण्टीग्रल–कोच–फैक्टरी’ इत्यत्र निर्मीयन्ते। एतेन आत्मनिर्भर–भारत–अभियानं प्रोत्साहितम्, रोजगार–अवसराश्च वर्धिताः।प्रधानमन्त्री अवदत् यत् ‘अमृत भारत स्टेशन योजना’ अन्तर्गतं राज्यस्य ७७ रेल–स्थानकानां आधुनिकीकरणं क्रियते, येषु अष्ट–पुनर्विकसित–स्थानकानां उद्घाटनं कृतम्। अपि च चेन्नई–बीच–चेन्नई–एग्मोर–मध्ये चतुर्थी रेल–रेखा राष्ट्राय समर्पिता, येन सहस्रशः नित्य–यात्रिण: प्रत्यक्ष–लाभं प्राप्स्यन्ति।
स: अवदत् यत् सूचना–सञ्चार–सौविध्यानां विस्तारः लोकतन्त्रं सुदृढयति। तमिलनाडु–राज्ये आधारभूत–संरचना–विकासाय केन्द्र–सर्वकारस्य निवेशः गत–दशकस्य तुलनया त्रिगुणितः अभवत्। बेंगलुरु–चेन्नई तथा चेन्नई–हैदराबाद ‘बुलेट–ट्रेन’ गलियारा–प्रस्तावाभ्यां क्षेत्रीय–अर्थव्यवस्थायै नूतन-दिशा लभ्येत।
राज्यस्य सांस्कृतिक–परम्परायाः संरक्षणे बलं दत्त्वा स अवदत् यत् आदिचनल्लूर–सदृशाणि ऐतिहासिक–स्थलानि वैश्विक–परम्परा–गन्तव्य–रूपेण विकसितानि करिष्यन्ते। पुलिकट–सरोवर–क्षेत्रे पोधिगै–मलै–प्रदेशे च ‘इको–पर्यटनस्य’ प्रोत्साहनेन आजीविका–सृजनं पर्यावरण–संरक्षणं च सुदृढीकरिष्यते।
एतस्मात् पूर्वं प्रधानमन्त्री कुंभकोणम्, यरकौड्, वेल्लूर्–नगरेषु आकाशवाण्याः नूतन–एफ.एम.–रिले–प्रेषकान् राष्ट्राय समर्पितवान्। तथा च मरक्कनम्–पुडुचेरी चतस्रपंक्ति–मार्ग–परियोजनायाः (२,१०० कोटि–रूप्यकात् अधिक–मूल्यस्य) तथा परमकुडी–रामनाथपुरम् चतुर्लेन–मार्ग–परियोजनायाः (१,८०० कोटि–रूप्यकात् अधिक–मूल्यस्य) आधारशिलां स्थापितवन्, येन रामेश्वरम्–धनुष्कोडि–सदृशेषु प्रमुख–धार्मिक–स्थलेषु आवागमनं अधिकं सुलभं भविष्यति।
अन्ते प्रधानमन्त्री विश्वासं व्यक्तवान् यत् २०४७ तमे वर्षे ‘विकसित–भारत’ लक्ष्य–प्राप्तौ तमिलनाडु–राज्यस्य भूमिका निर्णायिका भविष्यति, केन्द्र–सर्वकारश्च राज्यस्य समावेशी–विकासाय पूर्णतया प्रतिबद्धः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता