Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, ०१ मार्चमासः (हि.स.)।मदुरै–निर्वाचन–जनसभायाम् भागग्रहणाय नरेन्द्रमोदी चेन्नईनगरम् आगत:। कार्यकर्तृभिः तस्य स्वागतं कृतम्। अन्नाद्रमुक–भारतीयजनतापक्षयो: गठबंधनं समग्र–शक्त्या विधानसभा–निर्वाचन–सज्जायां संलग्नम् अस्ति।
आगमनम् एवं स्वागतम्
प्रधानमन्त्री मोदी गुजरातप्रदेशात् विशेष–विमानेन चेन्नई–विमानपत्तनम् आगत:। तत्र आर.एन.रवि:, मंत्री थंगम थेन्नारसु तथा मुख्य–सचिव: मुरुगानंदम: आगता:। अन्नाद्रमुक–महासचिव एडप्पाडी पलानीस्वामी, केंद्रीयमंत्री एल. मुरुगन, भाजपा–प्रदेश–अध्यक्ष: नैनारनागेंद्रन् तथा पूर्व–अध्यक्ष-तमिलिसाई सौंदरराजन् च आगता:। मार्गे एकत्रिताः कार्यकर्तारः मृदंगवाद्यै: सह विजयी–घोषम् उच्चारयन्तः अभिवादनं कृतवन्तः। प्रधानमंत्री–मोदी वाहनेन गिंडी–स्थितं राजभवनम् प्रति गत्वा अभिवादनं स्वीकृतवान्।
प्रधानमंत्रिण: कार्यक्रमा:
प्राय: ११:३० वादने चेन्नई–विशेष–विमानेन पुडुचेरी प्रस्थानम्, सरकारी–कार्यक्रमे भागः। मध्याह्ने १:५५ वादने हेलीकॉप्टर–यात्रया तंजावुर–वायुसेना–पत्तनम् आगमनम्। मध्याह्ने २:४५ वादने मदुरै–वायुयांपत्तनम् आगमनम्, भव्य–स्वागतम्। मदुरै–विमानपत्तन–परिसरे आयोजिते कार्यक्रमे नूतन–रेल–सेवाः, राष्ट्रीय–राजमार्गाः, तथा अन्य परियोजनाः उद्घाट्यन्ते।
रेल-संस्थात्राणाम् उद्घाटनम्
दक्षिण–जनपदेषु बहवः मार्ग–परियोजनाः प्रारब्धा:। भारतीय–रेलविभागेन १,३०० रेल-संस्थात्राणि “अमृत भारत योजना” अन्तर्गतं पुनर्विकसितानि। तमिलनाडु–मध्ये पोम्बडी, मोरप्पूर, तिरुवरूर, पोल्लाची, कारैकुडी, मनप्पारई, चोलवंदन, श्रीविल्लिपुथुर च ८ संस्थात्राणि तथा चेन्नई–बीच–एग्मोर–चतुर्थ–रेल–पंक्ति-परियोजनाया: (३७८ कोटि) उद्घाटनम्। उद्घाटनम् प्रधानमंत्री–मोदी मदुरै–विमानपत्तनात् वीडियो–कॉन्फ़्रेंसिंग–द्वारा करिष्यति।
तिरुपरंकुंद्रम–मन्दिर दर्शनम्
सायं ४:०० वादने कारयानेन मन्दिर–दर्शनम्। सायं ४:३० वादने जनसभा–स्थलम् आगमनम्। मंडेला–नगरं १५० एकड-क्षेत्रे भव्य–सज्जता, विशाल–मंच:, पेयजलम्, शौचालय:, चिकित्सा–सौविध्यानि उपलब्धानि।
गठबंधनदलानां नेतार: सम्मिलिता: भविष्यन्ति।
अस्यां जनसभायां अन्नाद्रमुक–महासचिव: एडप्पाडी पलानीस्वामी, केंद्रीयमंत्री पीयूषगोयल:, एल.मुरुगन, भाजपा–प्रदेश–अध्यक्ष: नैनार: नागेंद्रन, पूर्व–अध्यक्ष: अन्नामलाई, तमिलिसाई सौंदरराजन् च।
गठबंधनदलम्: एएमएमके–महासचिव: टीटीवी दिनाकरन्, पीएमके–अध्यक्ष: अंबुमणिरामदास:, जी.के.वासन, ए.सी.शन्मुगम, पारिवेंदर:, जॉन-पांडियन, पूवै–जगन मूर्ति: च।
सुरक्षा–व्यवस्था
सभा–स्थले दृढ–सुरक्षा–प्रबंधः।२०+विस्फोटक–निरोधक–दलम्, स्निफ़र–कुक्कुरै: सह निरीक्षणम्।कार्यकर्तारः केवलं निरीक्षणानन्तरम् प्रवेशं कर्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता