होलिका–पर्वणि नेत्र-उदर-त्वचा–सुरक्षायां शिथिलता भविष्यति चेत्—संकटस्य आगमनं निश्चितम्
प्रयागराजनगरम्, ०१ मार्चमासः (हि.स.)। होली–उत्सवः रङ्गानां तथा आनन्दस्य पर्व अस्ति। एतस्मिन् अवसरे निमित्तं रङ्ग–खाद्य–पदार्थेषु सावधानता अत्यावश्यकी अस्ति। यदि किंचित् शिथिलता जायते, तर्हि स्वास्थ्यसंकटं जीवनं स्पर्ष्टुं शक्नोति—एतत् आह्वानं डॉ.अर
होली पर्व के प्रतीकात्मक छाया चित्र


प्रयागराजनगरम्, ०१ मार्चमासः (हि.स.)। होली–उत्सवः रङ्गानां तथा आनन्दस्य पर्व अस्ति। एतस्मिन् अवसरे निमित्तं रङ्ग–खाद्य–पदार्थेषु सावधानता अत्यावश्यकी अस्ति। यदि किंचित् शिथिलता जायते, तर्हि स्वास्थ्यसंकटं जीवनं स्पर्ष्टुं शक्नोति—एतत् आह्वानं डॉ.अरुणकुमार: तिवारी– मुख्य-चिकित्साधिकारी रविवासरे जनमानसे कृतवान्।

मुख्य-चिकित्साधिकारी अवदत् यत् होली–पर्व यत्र रङ्गानां उत्साहं ददाति, तत्र स्वल्पा शिथिलता स्वास्थ्य–समस्याः उत्पन्नं कर्तुं शक्नोति। नगरस्य वरिष्ठ–चिकित्सकाः जनान् उक्तवन्त: यत् उत्सवे नेत्र-उदरं-त्वचानां विशेष–सुरक्षां कुर्वन्तु, यथा पर्वण: आनन्दः सुरक्षितः भवेत्।

नेत्र–सुरक्षा अत्यावश्यकी

मोतीलालनेहरू-चिकित्सामहाविद्यालयस्य–पूर्व–प्रधानाचार्यः, प्रसिद्ध–नेत्र–शल्य–विशेषज्ञः तथा प्रो.डॉ. एस.पी.सिंह: अवदत् यत् आपणेषु लभ्यमानेषु रङ्गेषु हानिकारक–रासायनिक–पदार्थाः सन्ति, ये नेत्रेषु ज्वलनं, रक्तता, शोथं, संक्रमणञ्च सम्भवति। कॉन्टैक्ट–लेंस–धारणं होली–क्रीडायां हानिकारकम्।

नेत्रस्य पार्श्वे सामान्यं तैलं नियोजयतु, सम्भवतः उपनेत्रं धारयेत्। यदि नेत्रे रङ्गः प्रविष्टः, शीघ्रं शुद्ध–जलैः स्नानं कुर्वन्तु; नेत्रमर्दनं न, गृह–औषधिं वा पाटलजलं न प्रयुञ्जीत। दृष्टि–धूमिलं, तीव्र–पीडा वा निरन्तर–ज्वलने अपि, शीघ्रं नेत्र–विशेषज्ञं सम्पर्कम् अनिवार्यम्। संजीव–सिंह: उक्तवान् “स्वल्प–सावधानतया पर्वण: आनन्दं सुरक्षितं कर्तुं शक्नुमः।”

होलिकापर्वणि भोजने सावधानता

डॉ.संदीपप्रजापति:, गैस्ट्रोएंटरोलॉजी–विभाग–सहायक–आचार्यः, अवदत् यत् गुझिया, मालपुआ, दही–भल्ला, ठंडाई इत्यादयः पारम्परिक–व्यञ्जनानि होली–परिचायकानि, किन्तु अतिपाकित–अधिमधुर–भोजनं उदर–समस्याः उत्पन्नं कर्तुं शक्नोति। अतिशर्करा, ठंडाई वा भंगस्य सेवनं वायु-अम्लता-वात–अतिसार–उदरपीडा: च जनयितुम् शक्नोति।

सः उक्तवान् — शुद्धं जलं पिबेत्, पुरातन–भोजनं त्यजेत्, शुद्व–फल–सलादं आहार–सूच्यां समाविशतु। उदर–व्याधेः सन्निपाते सामान्यं सुपाच्यं भोजनं कुर्यात्, ओआरएस वा नारिकेल–जलं पिबेत्, तथा समस्या वृद्धौ चिकित्सकीय–परामर्शं अनिवार्यम्।

त्वचा–सुरक्षा

डॉ.एस.के.ओझा, मोतीलालनेहरू-चिकित्सा-महाविद्यालयस्य त्वचा–विभाग–सहायक–आचार्यः, अवदत् यत् होली–रासायनिक–रङ्गाः त्वचायाम् एलर्जी, कण्डूति:, रैशेज् च जनयितुं शक्नुवन्ति। होली–खेलनात् पूर्वं देहे तैलं नियोजयन्तु, पूर्ण–हस्त-वस्त्र–धारणं च कुर्वन्तु। आयुर्वेदिक–रङ्गानां प्रयोगः अनुकूलः। रङ्गं निरन्तरं पश्चात् उष्ण–जलैः शनै: शनै: शुद्धं कुर्वीत, कठोर–फेनकं न प्रयुञ्जीत। त्वचायां अधिक–कंडूत्यां शोथे ज्वलने च चिकित्सकेन सह शीघ्रं सम्पर्कः करणीय:।

हिन्दुस्थान समाचार / अंशु गुप्ता