Enter your Email Address to subscribe to our newsletters

-रामनगर डोमरी इत्यस्य 'नगरीये वने'गूंजितो हर-हर महादेव
-गिनीज बुक ऑफ वर्ल्ड रिकॉर्ड्स इत्यनयोःअंकिता काश्याः ऐतिहासिकी सफलता
-वाराणसी संजाता जगतः सर्वतो महत् मियावाकीवन्यं क्षेत्रम्
वाराणसी, 01 मार्चमासः (हि.स.)।
उत्तरप्रदेशस्य धार्मिकनगरी काशी रविवासरे पर्यावरणसंरक्षणस्य इतिहासे स्वनाम स्वर्णाक्षरैः लिखितवती। वाराणसीनगरस्य सुजाबाद डोमरी क्षेत्रे आयोजितः ‘वृहद् पौधरोपणकार्यक्रमः’ एतादृशं कीर्तिमानं स्थापितवान् यः सम्पूर्णं विश्वम् आश्चर्यचकितम् अकरोत्। केवलं एकघण्टायाः निर्धारितसमये अन्तर्गतं वाराणस्यां द्विलक्षैकपञ्चाशत्सहस्रचतुःशत्षट्चत्वारिंशत् पौधानां सफलरोपणं कृत्वा चीनदेशस्य अष्टवर्षपूर्वं स्थापितः अभिलेखः आधिकारिकरूपेण अतिक्रान्तः।
अस्मिन् अवसरॆ गिनीज वर्ल्ड रिकॉर्ड्स इत्यस्य निर्णायकः ऋषि नाथ महोदयः महापौरम् अशोककुमारतिवारीम् तथा हिमांशुपालं नूतनकीर्तिमानस्थापनार्थं प्रमाणपत्रं प्रदत्तवान्। ऐतिहासिकक्षणस्य अभिलेखनार्थं गिनीजसंस्थायाः दलं प्रभाते एव उपस्थितम् आसीत्। नगरनिगमस्य विविधसामाजिकसरकारीसंस्थानां च अद्वितीयसमन्वयेन त्रिशतपञ्चाशद् बीघापरिमिते क्षेत्रे विकसितः अयं आधुनिकः ‘शहरी वन’ भारतस्य मानं विश्वमञ्चे उन्नतम् अकरोत्।
अद्यपर्यन्तं एकघण्टायां अधिकतमपौधरोपणस्य विश्वकीर्तिमानः चीनदेशस्य हेनान प्रान्तीयसमितेः तथा हेनान शिफांगे ग्रीनिंग इंजीनियरिंग कम्पनी इत्येतयोः नाम्ना आसीत्। ताभ्यां १० मार्च २०१८ दिनाङ्के एकलक्षत्रिपञ्चाशत्सहस्रनवशतैकाशीतिपौधाः रोपिताः आसन्। किन्तु डोमरी क्षेत्रे मियावाकी पद्धत्या विशालजनभागीदाऱ्या च सुव्यवस्थितरूपेण कृतं रोपणं तं कीर्तिमानं न केवलं भङ्क्त्वा अपितु दूरं नीतवान्।
निर्णायकौ ऋषिनाथः निश्चलबारोटश्च प्रत्येकक्रियायाः सूक्ष्मतया निरीक्षणं कृतवन्तौ। ड्रोनयानकैः आधुनिकडिजिटलगणनतन्त्रैश्च सत्यापनानन्तरं नूतनकीर्तिमानस्य घोषणा कृता।
अस्य ‘शहरी वन’ इत्यस्य विशिष्टता अस्य रचनायां वैचारिकपृष्ठभूमौ च दृश्यते। सम्पूर्णं वनक्षेत्रं षष्टिभिः विभागैः विभक्तम्। प्रत्येकविभागस्य नाम काश्याः प्रसिद्धगङ्गाघाटानां नाम्ना यथा दशाश्वमेधघाटः ललिताघाटः नयाघाटः मणिकर्णिकाघाटः केदारघाटः चौषट्टीघाटः मानमन्दिरघाटः शीतलाघाटः इत्यादीनि निर्दिष्टानि। भविष्ये एते पौधाः वृक्षरूपे परिणताः सन्तः हरितपूर्णं ‘लघु काशी’ स्वरूपं प्रदर्शयिष्यन्ति। प्रत्येकविभागे प्रायः चतुःसहस्राधिकाः पौधाः रोपिताः। शीशम अर्जुन सागौन बाँस इत्यादयः सप्तविंशतिदेशीयप्रजातयः आम्र अमरूद पपीता इत्यादयः फलवृक्षाः अश्वगन्धा शतावरी गिलोय इत्यादयः औषधिप्रजातयः च प्राधान्येन रोपिताः।
अस्य विश्वकीर्तिमानस्य पृष्ठभूमौ मासानां सूक्ष्मतयारचितयोजना सहस्राणां जनानां सामूहिकपरिश्रमश्च अस्ति। प्रातःकालात् एव उत्साहपूर्णं वातावरणम् आसीत्। भारतीयसेनायाः ३९ जीटीसी ३४ जीटीसी ३९ जीआर १३७ सीएफटीएफ इत्यादीनां जवानाः अनुशासनस्य आदर्शं प्रदर्शितवन्तः। एनडीआरएफ सीआरपीएफ नागरिकसुरक्षा तथा उत्तरप्रदेशपुलिसस्य वाहिन्यः अपि सक्रियतया सहभागी अभवन्। नमामि गङ्गे उत्तरप्रदेशवनविभागः कृषिविभागः डूडा नगरनिगमदलानि च तांत्रिकप्रबन्धनं सिंचनव्यवस्थां च संभालितवन्ति। महात्मा गान्धी काशी विद्यापीठ यूपी कालेज देहरादून पब्लिक स्कूल मुकुलारेंडम स्कूल इत्यादीनां छात्रछात्राः एनसीसी कैडेट्स एनएसएस स्वयंसेवकाः च कार्यक्रमं जनआन्दोलनरूपे परिवर्तितवन्तः।
एतादृशस्य विशाललक्ष्यस्य संरक्षणार्थं सुदृढव्यवस्था कृता। दशसहस्राष्टशतसप्तविंशतिमीतरपरिमिता पाइपलाइन स्थापिताः। दश बोरवेल ३६० रेनगन प्रणाली च स्थापिताः यत् जलस्य अपव्ययः न भवेत्। मियावाकी पद्धत्याः कारणात् एते पौधाः सामान्यतया अपेक्षया दशगुणं शीघ्रं वर्धिष्यन्ते तथा द्वित्रिवर्षाभ्यन्तरे एतत् क्षेत्रं सघन ‘प्राणवायु भण्डार’ इव भविष्यति। एषा पद्धतिः जापानदेशीयवनस्पतिशास्त्रज्ञेन अकीरा मियावाकी इत्यनेन विकसिताऽस्ति।
कार्यक्रमे उपस्थितेषु गण्यमानेषु काश्याः विश्वविद्यालयस्य कुलपतिः प्रोफेसर अजितकुमारचतुर्वेदी महापौरः अशोककुमारतिवारी विधानपरिषद्सदस्यः धर्मेन्द्रराय एमएलसी हंसराजविश्वकर्मा अश्वनीत्यागी नगरायुक्तः हिमांशुनागपाल श्यामभूषणशर्मा च आसन्।
महापौरः भावुकतया उक्तवान् यत् एषः आध्यात्मिकशान्तेः आधुनिकअर्थशास्त्रस्य च अद्वितीयसमन्वयः अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदीस्य प्रेरणया तथा मुख्यमन्त्रिणः योगिनःआदित्यनाथस्य मार्गदर्शनेन प्राप्ता एषा उपलब्धिः दर्शयति यत् काशी न केवलं प्राचीनपरम्पराः संरक्षति अपितु पर्यावरणसंरक्षणे अपि विश्वस्य नेतृत्वं कर्तुं समर्था अस्ति। द्विलक्षपञ्चाशत्सहस्राधिकपौधानां एषा नवीनसौगात् काश्याः ललाटे गौरवतिलकवत् विराजते।
---------------
हिन्दुस्थान समाचार