Enter your Email Address to subscribe to our newsletters

चण्डीगढम्, ०१ मार्चमासः (हि.स.)। हरियाणा–राज्यस्य मुख्यमन्त्री नायबसिंह: सैनी रविवासरे पञ्जाब–राज्यस्य दीनानगरम् ( गुरदासपुर–जनपदः) इत्यत्र सैनी–समाजेन आयोजितं कार्यक्रमं सम्बोधयन् अवदत् यत् पञ्जाबः गुरूणां भूमिः अस्ति—तपः, त्यागः, बलिदानं च यस्य स्वभावः। विभाजन–वेदना–अनुभवेऽपि अत्रत्य जना: कदापि निराशा न आधिपत्यं कृतवन्त:; आत्मविश्वासं तु स्वस्य महतीं शक्तिं कृतवन्तः।
मुख्यमन्त्री अवदत् यत् पञ्जाब–विधानसभा–निर्वाचनम् केवलं सर्वकार–परिवर्तनस्य न, अपि तु पञ्जाबस्य राजनैतिक–दिशा–परिवर्तनस्य तथा समाजाय सम्मान–प्रदानस्य अवसरः अस्ति। अस्यां पुण्य–भूमौ आगत्य स्वयम् गौरवम् अनुभूयते इति सः उक्तवान्। उपस्थितं जनसमूहं नमस्कृत्य सः आह्वानं कृतवान्—सर्वै: मिलित्वा पञ्जाबं पुनः विकास–पथे अग्रणी–राज्यं कर्तव्यम्; “वयं सर्वे मिलित्वा पञ्जाबं पुनः ‘रङ्गला पञ्जाब’ करिष्यामः” इति सः अवदत्।
मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी सैनी–समाजाय सम्मानं दत्तवान्—मम सदृशं लघुं कार्यकर्तारं मुख्यमन्त्रीं कृत्वा समाजं सबलीकृतवान्। सः अवदत् यत् सोमवासरे हरियाणा–विधानसभायां स्वस्य द्वितीयं वित्तविवरणं प्रस्तोष्यते। २१७ सङ्कल्पेषु ६० पूर्णीकृताः, १२० च शीघ्रं प्रगतौ सन्ति इति तेन निर्दिष्टम्।
राज्य–योजनानां उल्लेखं कुर्वन् सः अवदत्—हरियाणायां वृक्क–रोगिणां कृते सर्वेषु चिकित्सालयेषु तथा वैद्यकीय–महाविद्यालयेषु निःशुल्क–डायलिसिस–सेवा प्रदीयते; वृद्धेभ्यः प्रतिमासं दशमे दिने गृह एव पेंशन उपलब्धं भवति। ‘लाडो–लक्ष्मी–योजना’ अन्तर्गतं महिलाभ्यः २१०० रूप्यकाणि प्रदीयन्ते। कृषकाणां सस्य–क्रयः न्यूनतम–समर्थन–मूल्ये (एम.एस.पी.) भवति, ४८ होराभ्यन्तरे धनप्रदानं सुनिश्चितं च। ‘भावान्तर–भरपाई–योजना’ अपि कृषकान् लाभान्विती करोति। निर्धनेभ्यः गृह–निर्माणं प्रदीयते; येषां कुटुम्बानां भूमिः नास्ति, तेभ्यः भूमि: दत्ता; दीर्घकालं पञ्चायती–भूमौ निवसमानेभ्य: कुटुम्बेभ्य: स्वामित्व–अधिकारः अपि प्रदत्तः।
पञ्जाबे सत्ता अल्पेषु हस्तेषु सीमितत्वात् विकासः बाधितः—इति मुख्यमन्त्री अवदत्। अद्य राजनैतिक–दिशा–परिवर्तनस्य समयः आगतः। अग्रिम–विधानसभा–निर्वाचने ओबीसी–वर्गम् एकीकृत्य निर्णायक–भूमिकां वहिष्यति, भारतीय–जनता–पक्षस्य सर्वकार–निर्माणे योगदानं दास्यति—येन पञ्जाबः पुनः रङ्गलः समृद्धश्च प्रदेशः भवेत्।
सः अवदत्— पञ्जाबे ३१ प्रतिशतं ओबीसी–वर्गः अस्ति; तं एकीकृत्य राजनैतिक–धुरीं भवेत्। अद्य पञ्जाबस्य स्थितिः दुरवस्था—बेरोजगारी, मादक–द्रव्य–दोषः, अपराधः, पलायनं च— एतासान समस्यानां निवारणाय इदानीं समयः आगतः; अत्र सैनी–समाजस्य महती भूमिका अपेक्षिता। अन्ते सः राहुलगांधी–विषये परिहासं कुर्वन् अवदत्—बिहार–निर्वाचनात् पूर्वं हरियाणायां मत–चौर्य–आरोपाः कृताः; किन्तु जनतया ते सर्वथा निरस्तिकृता।
हिन्दुस्थान समाचार / अंशु गुप्ता