Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 मार्चमासः (हि.स.)।
केन्द्रसरकारेण मङ्गलवासरे तमिलनाडु राज्यस्य मदुरै विमानतलस्य अन्ताराष्ट्रियदर्जप्रदानस्य घोषणा कृता।
प्रधानमन्त्रिणः नरेन्द्र मोदी अध्यक्षतायां आयोजितायां केन्द्रीयमन्त्रिमण्डलस्य बैठके अद्य एतत्सम्बद्धः प्रस्तावः अनुमोदितः।
मन्त्रिमण्डलनिर्णयानां विषये सूचनां दत्त्वा केन्द्रीयमन्त्री अश्विनी वैष्णव उक्तवान् यत् मदुरै नगरं मन्दिराणां नगररूपेण प्रसिद्धम् अस्ति तथा अत्र राज्यस्य प्राचीनतमेषु विमानतलेषु एकं स्थितम् अस्ति। तेन उक्तं यत् मदुरैविमानतलस्य स्तरवृद्ध्या क्षेत्रीयसंपर्कः, व्यापारः तथा तेन सम्बद्धा क्षेत्रीयअर्थव्यवस्था अपि वर्धिष्यते। अस्य फलस्वरूपम् अन्ताराष्ट्रियतीर्थयात्रा तथा व्यापारः अपि अधिकं प्रोत्साहनं प्राप्स्यति।
---------------
हिन्दुस्थान समाचार