(मंत्रिमंडलं) उज्जैनाय दिल्ली-मुंबईद्रुतमार्गेण योजयितुं 4-लेन कॉरिडोर इत्यपि अनुमतम्
नव दिल्ली, 10 मार्चमासः (हि.स.)।केन्द्रसर्वकारेण उज्जयिनीं दिल्ली-मुम्बई-एक्सप्रेसवेना सह संयोजयितुं ३,८३९ कोटि-रूप्यक-मूल्यस्य चतुर्लेन-मार्ग-परियोजना अनुमोदिता अस्ति। प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य अध्यक्षतायां सम्पन्नायां आर्थिककार्यमन्त्
road


नव दिल्ली, 10 मार्चमासः (हि.स.)।केन्द्रसर्वकारेण उज्जयिनीं दिल्ली-मुम्बई-एक्सप्रेसवेना सह संयोजयितुं ३,८३९ कोटि-रूप्यक-मूल्यस्य चतुर्लेन-मार्ग-परियोजना अनुमोदिता अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी-महाभागस्य अध्यक्षतायां सम्पन्नायां आर्थिककार्यमन्त्रिमण्डलीयसमित्याः अद्य आयोजितायां बैठके एषः प्रस्तावः अनुमोदितः। मन्त्रिमण्डलस्य निर्णयानां विषये राष्ट्रीयमीडियाकेन्द्रे केन्द्रीयमन्त्री अश्विनीवैष्णवः जानकारीं अदात्।

मन्त्रिणा उक्तं यत् मध्यप्रदेशे दिल्ली-मुम्बई-एक्सप्रेसवे अन्तर्गतः बदनवार-पेटलावाड़-थंदला-तिमारवानी खण्डः (एनएच-७५२डी) चतुर्लेन-निर्माणरूपेण हाइब्रिडवार्षिकी-पद्धत्याः आधारेण निर्मास्यते। अस्यां परियोजनायां ८०.४५ किलोमीटर-दीर्घस्य कॉरिडोरस्य निर्माणं सम्मिलितम्।

अयं कॉरिडोरप्रकल्पः उज्जयिन्याः दिल्ली-मुम्बई-एक्सप्रेसवे स्थितस्य तिमारवानी-इंटरचेंज-पर्यन्तं निर्बाधं चतुर्लेन-संयोजनं प्रदास्यति। अस्य परियोजनायाः उद्देश्यं यात्रां सुगमां कर्तुं तथा च यात्रासमये लगभग एकघण्टाया: न्यूनता कर्तुम् अस्ति।

-------------

हिन्दुस्थान समाचार