Enter your Email Address to subscribe to our newsletters

रायपुरम्, 10 मार्चमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः मार्चमासस्य दशमे दिने मङ्गलवासरे विधानसभायाः बजट्-सत्रे एतां सूचनां दत्तवान् यत् “नेशनल् हेराल्ड्” नाम समाचारपत्राय गतपञ्चवर्षेषु (2019–2024) समग्रतया 4.24 कोटि रुप्यकाणि विज्ञापनरूपेण दत्तानि। “नवसृजन” नाम पत्रिकायै तु अस्मिन् अवधौ किमपि भुगतानं न कृतम्।
सदनस्य कार्यवाह्यां समये भाजपादलस्य विधायकः सुशान्तशुक्लः अपृच्छत् यत् 2019–20 तः 2025–26 पर्यन्तं जनसम्पर्कविभागेन “नेशनल् हेराल्ड्”, “सण्डे नवजीवन” तथा “नवसृजन” पत्रिकाभ्यः विज्ञापनमदे कियत् धनं प्रदत्तम्, तेषां कार्यालयं कुत्र अस्ति, तथा ते कुत्रतः सञ्चालिताः भवन्ति इति।
मुख्यमन्त्री विष्णुदेवसायः अवदत् यत् “नेशनल् हेराल्ड्” पत्राय वर्षे 2019–20 मध्ये 34 लक्षरुप्यकाणि, 2020–21 मध्ये 58 लक्षरुप्यकाणि, 2021–22 मध्ये 68 लक्षरुप्यकाणि, 2022–23 मध्ये 1.28 कोटि रुप्यकाणि, तथा 2023–24 मध्ये 1.36 कोटि रुप्यकाणि दत्तानि। वर्षयोः 2024–25 तथा 2025–26 मध्ये किमपि धनं न दत्तम्।
एतस्मिन् काले “नवसृजन” पत्रिकायै किमपि भुगतानं न कृतम्, किन्तु “सण्डे नवजीवन” पत्रिकायै 3 कोटि 6 लक्षरुप्यकाणां विज्ञापनं प्राप्तम्।
तेन अपि उक्तं यत् “नेशनल् हेराल्ड्” पत्रस्य प्रबन्धकः पवनबंसलः अस्ति, तस्य मुखिया कः इति तु सम्पूर्णः देशः जानाति। पूरकप्रश्ने पृष्टं यत् किं शासनं कस्यचित् राजनैतिकदलस्य विचारप्रचारपत्राय धनं दातुं शक्नोति? येन एतत् कृतम् तेषु किं कार्यवाही भविष्यति?
अन्यः भाजपाविधायकः अजयचन्द्राकरः अपृच्छत् यत् एते विज्ञापनाः कस्यानुसारिण्या नीत्या प्रदत्ताः, तथा तेषां विषये किं परीक्षणं भविष्यति? अस्य उत्तरे मुख्यमन्त्री विष्णुदेवसायः अवदत् यत् प्रति-पृष्ठं 8 लक्षरुप्यकाणां आधारেণ विज्ञापनं प्रदत्तम्, तथा “विज्ञापननियमावली 2019” इत्यस्य आधारपरम् एते विज्ञापनाः दत्ताः।
हिन्दुस्थान समाचार