मुख्यनिर्वाचनायुक्तः ज्ञानेश कुमारं प्राप्नोत् बेलूर मठं, कथितवान्-आयोग हिंसामुक्तः शांतिपूर्णनिर्वाचनं च कर्तुं प्रतिबद्धम्
कोलकाता, 10 मार्चमासः(हि.स.)। पश्चिमबङ्गराज्ये आगामिनो विधानसभानिर्वाचनस्य तयारीणां मध्ये मुख्यनिर्वाचनायुक्तः ज्ञानेशः कुमारः मङ्गलवासरे प्रातःकाले बेलूरमठं तथा दक्षिणेश्वरस्थितं भवतारिणीमन्दिरं च दर्शितवान्। अस्मिन् अवसरे स उक्तवान् यत् राज्ये हि
दक्षिणेश्वर मंदिर में ज्ञानेश कुमार


बेलूर मठ में ज्ञानेश कुमार


कोलकाता, 10 मार्चमासः(हि.स.)। पश्चिमबङ्गराज्ये आगामिनो विधानसभानिर्वाचनस्य तयारीणां मध्ये मुख्यनिर्वाचनायुक्तः ज्ञानेशः कुमारः मङ्गलवासरे प्रातःकाले बेलूरमठं तथा दक्षिणेश्वरस्थितं भवतारिणीमन्दिरं च दर्शितवान्। अस्मिन् अवसरे स उक्तवान् यत् राज्ये हिंसारहितं शान्तिपूर्णं च निर्वाचनं कर्तुं निर्वाचनायोगः पूर्णतया प्रतिबद्धः अस्ति।

त्रिदिवसीयस्य पश्चिमबङ्गदौरे स्थितः ज्ञानेशः कुमारः मङ्गलवासरे प्रातः प्रायः सप्तवादने बेलूरमठम् आगतः। तत्र स मुख्ये मन्दिरे पूजां कृत्वा मठाध्यक्षेन स्वामिना गौतमानन्दमहाराजेन सह मिलित्वा तस्य आशीर्वादं प्राप्तवान्। स प्रायः पञ्चचत्वारिंशन्मिनटपर्यन्तं मठपरिसरे स्थितवान्।

बेलूरमठात् निर्गत्य पत्रकारान् प्रति स उक्तवान् यत् अस्मिन् निर्वाचने कापि अप्रियघटना न भवेत् इति विषये विशेषदृष्टिः धार्यते। निर्वाचनायोगः राज्ये शान्तिपूर्णं हिंसारहितं च मतदानं सुनिश्चितं कर्तुं दृढसंकल्पितः अस्ति।

बेलूरमठात् निर्गत्य ज्ञानेशः कुमारः दक्षिणेश्वरस्थितं भवतारिणीमन्दिरम् अपि गतवान्। तत्र गच्छन् तस्य प्रति कृष्णध्वजानां प्रदर्शनस्य आरोपः अपि समुत्थितः। अस्मात् पूर्वं सोमवासरे मुख्यनिर्वाचनायुक्तः राज्यस्य पुलिसप्रशासनिकाधिकारिभिः सह बैठकां कृतवान्। तदनन्तरं विभिन्नराजनीतिकदलानां प्रतिनिधिभिः सह अपि चर्चा कृता। बैठकोपरान्तं निर्वाचनायोगस्य पूर्णपीठेन स्वीक्रियमाणं यत् केषुचित् स्थानेषु काचित् समस्या भवितुम् अर्हति, किन्तु राज्ये विधानसभानिर्वाचनं कर्तुं अनुकूलं वातावरणं विद्यमानम् अस्ति।

अन्यत्र तृणमूलकाङ्ग्रेसदलेन मुख्यनिर्वाचनायुक्तस्य विरुद्धं संसदि महाभियोगप्रस्तावस्य प्रस्तुतेः तयारी आरब्धा अस्ति। मुख्यनिर्वाचनायुक्तः एकं संवैधानिकं पदम् अस्ति, तथा च तादृशपदे स्थितस्य व्यक्तेः विरुद्धं महाभियोगप्रस्तावं प्रस्तुतुं न्यूनातिन्यूनं शतसांसदानां हस्ताक्षराणि अपेक्षितानि भवन्ति। लोकसभाराज्यसभयोः समवायेन तृणमूलकाङ्ग्रेसदलस्य कुलं एकचत्वारिंशत् सांसदाः सन्ति। अतः दलस्य समानविचारधारायुक्तानां अन्यदलसांसदानां समर्थनम् अपि संग्रहीतुं भविष्यति।

हिन्दुस्थान समाचार