Enter your Email Address to subscribe to our newsletters

- भविष्यस्य युद्धपरिस्थितीनां सेनायै आधुनिकम्, इंटीग्रेटेड तकनीकं युतं कर्तुं दत्तं बलम्
नव दिल्ली, 10 मार्चमासः(हि.स.)। रक्षा मंत्री राजनाथ सिंहोमङ्गलवासरे साउथ ब्लॉक इत्यत्र भारतीयसेनायै “डिफेन्स फोर्सेज विजन” नामकः मार्गमानचित्रं प्रकाशितम्। एतत् विस्तृतं योजनापत्रं हेडक्वार्टर इंटीग्रेटेड डिफेन्स स्टाफ द्वारा सज्जीकृतम् अस्ति, यस्य उद्देश्यः रक्षाबलान् आधुनिकं समन्वितं तथा प्रौद्योगिक्युपेतं सैन्यबलं कर्तुम् अस्ति, यत् २०४७ पर्यन्तं भारतस्य विकसितराष्ट्रत्वस्य लक्ष्यसिद्धौ साहाय्यं करिष्यति।
अयं प्रस्तावो भविष्यस्य युद्धपरिस्थितिषु अनुकूलितुं समर्थां सेनां निर्मातुं नवोन्मेषस्य, उन्नतप्रौद्योगिक्याः तथा आधुनिकप्रशिक्षणप्रणाल्याः महत्त्वं अपि विशेषतया प्रतिपादयति।
अस्मिन् विजनपरपत्रे सशस्त्रबलानां आवश्यकानां सामरिकसुधाराणां, क्षमतावृद्धेः तथा संगठनात्मकपरिवर्तनानां विषये वर्णनं कृतम् अस्ति, येन परिवर्तमाने भू-रणनीतिके, प्रौद्योगिके तथा सुरक्षापरिसरे प्रभावीरीत्या प्रत्युत्तरं दातुं शक्येत। अस्मिन् सेनां समन्वितां बहुक्षेत्रीयां चपलां च शक्तिं कर्तुं योजना अस्ति, या शत्रून् निवारयितुं, विविधसंघर्षेषु प्रत्युत्तरं दातुं तथा परिवर्तमाने वैश्विकक्षेत्रीयपरिस्थितिषु वर्धमानानां सामरिकहितानां संरक्षणं कर्तुं समर्था भवेत्।
अस्य विजनस्य प्रमुखः अंशः सेनाबलानां मध्ये समन्वयस्य बलीकरणम् अस्ति, येन योजना, संचालनं तथा क्षमताविकासः अधिकं सुसम्बद्धः भवेत्।
रक्षामन्त्रालयस्य अनुसारं अस्मिन् विजने रक्षाक्षेत्रे आत्मनिर्भरता विशेषतया प्रतिपादिता अस्ति, या देशस्य विशिष्टसुरक्षाआवश्यकतानुसारं स्वदेशीप्रौद्योगिक्याः समाधानानां च प्रोत्साहनं करोति। स्वदेशीयस्य रक्षाविनिर्माणस्य प्रौद्योगिकीक्षमतानां च सुदृढीकरणेन कार्यसज्जता वर्धिष्यते तथा राष्ट्रस्य आर्थिकविकासे अपि योगदानं भविष्यति इति अपेक्षा अस्ति।
अस्मिन् विजनदस्तावेजे अल्पकालिक, मध्यकालिक तथा दीर्घकालिक समयसीमानां अन्तर्गतं स्पष्टप्राथमिकतासहितः क्षमताविकासमार्गमानचित्रः अपि निरूपितः अस्ति। एषः विश्वस्तरीयं रक्षाबलं निर्मातुं आवश्यकानां सैन्यक्षमतानां, संस्थागतसुधाराणां तथा सामरिकसहकार्यस्य विकासे सहायकः भविष्यति।
रक्षामन्त्री राजनाथ सिंह उक्तवान् यत् भविष्यस्य सुरक्षाचुनौतिनां जटिलतां दृष्ट्वा एषः विजनदस्तावेजः समग्रराष्ट्रीयदृष्टिकोणस्य आवश्यकतां प्रतिपादयति, यत्र राष्ट्रियसुरक्षां सुदृढीकर्तुं सैन्यशक्तिः कूटनीतिक, प्रौद्योगिक तथा आर्थिकशक्तिभिः सह समन्विता भविष्यति। निरन्तरसुधारैः नवोन्मेषैः राष्ट्रियप्रतिबद्धतया च अस्य उद्देश्यं एतत् अस्ति यत् भारतस्य स्वातन्त्र्यस्य शताब्द्यां देशस्य सेना विश्वे सम्मानिता, प्रौद्योगिकीदृष्ट्या उन्नता तथा युद्धसज्जा शक्तिः रूपेण प्रतिष्ठिता भवेत्, या विकसितभारतनिर्माणे योगदानं दद्यात्।
अस्मिन् अवसरे चीफ ऑफ डिफेन्स स्टाफ जनरल अनिल चौहान, नौसेनाप्रमुखः एडमिरल दिनेश के त्रिपाठी, वायुसेनाप्रमुखः एयर चीफ मार्शल एपी सिंह, रक्षा सचिव राजेश कुमार सिंह, सेना उपप्रमुखः लेफ्टिनेंट जनरल पुष्पेन्द्र सिंह तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।-----------
हिन्दुस्थान समाचार