चैत्र–नवरात्रौ माता–बगलामुखी–मन्दिरस्य गर्भगृहे प्रवेशः प्रतिबन्धितः, त्रिशूल–मण्डपात् दर्शनं भविष्यति
आगरमालवाजनपदः, १० मार्चमासः (हि.स.)। आगरमालवा–जनपदस्य नलखेड़ा–स्थाने स्थिते विश्व–प्रसिद्धे पीताम्बरा–सर्वसिद्धपीठे माता–बगलामुखी–मन्दिरे अग्रिम: चैत्र–नवरात्रि–महोत्सवः १९ मार्चमासात् २७ मार्चमास २०२६ पर्यन्तं श्रद्धा–भक्तिभ्यां सह आचरिष्यते। अस्म
1 फोटो


आगरमालवाजनपदः, १० मार्चमासः (हि.स.)। आगरमालवा–जनपदस्य नलखेड़ा–स्थाने स्थिते विश्व–प्रसिद्धे पीताम्बरा–सर्वसिद्धपीठे माता–बगलामुखी–मन्दिरे अग्रिम: चैत्र–नवरात्रि–महोत्सवः १९ मार्चमासात् २७ मार्चमास २०२६ पर्यन्तं श्रद्धा–भक्तिभ्यां सह आचरिष्यते। अस्मिन् काले बहुसंख्यकानां श्रद्धालूनां आगमनस्य सम्भावनां दृष्ट्वा मन्दिर–प्रशासनेन विशेष–व्यवस्थाः प्रवर्तिताः।

मन्दिर–प्रबन्धन–समितेः अध्यक्षेन तथा नलखेड़ा–तहसीलदारेण निर्गत–आदेशानुसारं नवरात्रेः सम्पूर्णेषु नवसु दिनेषु माता-बगलामुख्याः गर्भगृहे प्रवेशः पूर्णतया प्रतिबन्धितः भविष्यति। श्रद्धालवः अस्मिन् अवधौ त्रिशूल–मण्डपात् एव मातुः सुलभं दर्शनं कर्तुं शक्नुवन्ति।

मन्दिर–प्रशासनेन स्पष्टं कृतं यत् एषा व्यवस्था सर्वेषां श्रद्धालूनां कृते समानरूपेण प्रवर्तिष्यते। सामान्य–वीआईपी–वीवीआईपी–इत्यादिनां सर्वेषां दर्शनार्थिनां कृते अपि निर्धारित–व्यवस्थानुसारमेव दर्शनं कर्तव्यं भविष्यति। प्रशासनेन श्रद्धालुभ्यः आह्वानं कृतं यत् ते मन्दिर–परिसरे अनुशासनं पालनं कुर्वन्तु तथा शान्तिपूर्वकं दर्शनं कृत्वा सहयोगं प्रयच्छन्तु।

उल्लेखनीयम् अस्ति यत् नलखेड़ा–स्थितं एतत् पीताम्बरा–सर्वसिद्धपीठं देशस्य सर्वत्र आस्थायाः प्रमुखं केन्द्रम् अस्ति। नवरात्रि–काले अत्र बहुसंख्यकाः श्रद्धालवः, साधकाः, सन्त–महात्मानः तथा विविध–क्षेत्रेभ्यः आगताः वीआईपी–वीवीआईपी–जनाः अपि देवी–दर्शनाय आगच्छन्ति। अस्मिन् काले मन्दिरे हवन–पूजन–विशेष–अनुष्ठानानां च आयोजनम् अपि क्रियते।

हिन्दुस्थान–समाचारः।

हिन्दुस्थान समाचार / अंशु गुप्ता