Enter your Email Address to subscribe to our newsletters

छत्तीसगढ़स्य 24.71 लक्षात् अधिकेभ्यः कृषकेभ्यः लप्स्यते498.83 कोटिरुप्यकाणि
रायपुरम्, 10 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी १३ मार्च-दिने असमराज्यस्य गुवाहाटी-नगरे आयोजिते कार्यक्रमे देशस्य प्रायः ९.३२ कोटि कृषकाणां खातेषु प्रधानमन्त्रीकृषकसम्माननिधियोजनायाः द्वाविंशतितमकिस्तस्य १८६५० कोटि रूप्यकाणां राशेः अन्तरणं करिष्यन्ति।
अस्मात् राष्ट्रव्यापि कार्यक्रमात् छत्तीसगढराज्यस्य २४७१४९८ कृषकाणां बैंकखातेषु ४९८.८३ कोटि रूप्यकाणां राशि प्रेषिता भविष्यति। अस्याः योजनायाः अन्तर्गतं छत्तीसगढराज्यस्य २९२००० वनपट्टाधारिणः कृषकाः तथा ३७४०० विशेषपिछड़ीजनजातीयकृषकाः अपि लाभान्विताः क्रियन्ते।
अस्मिन् दिने प्रदेशस्य सर्वेषु जिलेषु पीएमकिसानउत्सवदिवसः इति रूपेण उत्सवः आचरिष्यते। कृषिविभागस्य अधिकारिणः अवदन् यत् पीएमकिसान-उत्सवस्य अन्तर्गतं विभिन्नासु ग्रामपञ्चायतासु कृषकसभानां आयोजनं क्रियते तथा प्रधानमन्त्रिणः कार्यक्रमस्य प्रत्यक्षप्रसारणम् अपि करिष्यते, येन कृषकाः अस्य कार्यक्रमेन सह प्रत्यक्षतया सम्बद्धाः भवितुं शक्नुवन्ति।
प्रधानमन्त्रिकिसानसम्माननिधियोजनायाः प्रमुखा विशेषता तस्याः पारदर्शिता व्यवस्था अस्ति। अस्याः योजनायाः अन्तर्गतं धनराशिः प्रत्यक्षतया कृषकाणां कोषेषु प्रेष्यते, येन मध्यस्थव्यक्तीनां भूमिका पूर्णतया समाप्ता भवति।
एषा धनराशिः कृषकैः स्वकृषेः आवश्यकतासु यथा बीजानि खादानि तथा अन्येषु कृषिकार्येषु उपयुज्यते। अनेन कृषेः व्ययः न्यूनः भवति तथा कृषकाणां आर्थिकस्थितिः अपि सुदृढा भवति।
---------------
हिन्दुस्थान समाचार