प्रधानमंत्री श्वः केरले, तमिलनाडौ च 16 सहस्रकोटितः अधिकानां विकास परियोजनानां करिष्यति शुभारंभम्
नव दिल्ली, 10 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे केरल तथा तमिलनाडु राज्ययोः भ्रमणं करिष्यति। अस्मिन् अवसरे सः एर्नाकुलम तथा तिरुचिरापल्ली नगरयोः प्रायः १६,४५० कोटिरूप्यकाणां विविधविकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यत
प्रधानमंत्री नरेन्द्र मोदी शनिवार को कोटा एयरपोर्ट के शिलान्यास समारोह को वीडियो संदेश के माध्यम से संबोधित करते हुए


नव दिल्ली, 10 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे केरल तथा तमिलनाडु राज्ययोः भ्रमणं करिष्यति। अस्मिन् अवसरे सः एर्नाकुलम तथा तिरुचिरापल्ली नगरयोः प्रायः १६,४५० कोटिरूप्यकाणां विविधविकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्रीकार्यालयस्य अनुसारं प्रधानमन्त्री ११ मार्च दिनाङ्के अपराह्णे प्रायः १:३० वादने केरलस्य एर्नाकुलम नगरे प्रायः १०,८०० कोटिरूप्यकाणां विकासपरियोजनानां शुभारम्भं करिष्यति तथा कार्यक्रमं सम्बोधयिष्यति। अनन्तरं सायं प्रायः ५:४५ वादने तमिलनाडु राज्यस्य तिरुचिरापल्ली नगरे प्रायः ५,६५० कोटिरूप्यकाणां परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्री एर्नाकुलमे भारत पेट्रोलियम कॉर्पोरेशन लिमिटेड (बीपीसीएल) संस्थायाः कोच्चि रिफाइनरी मध्ये ५,५०० कोटिरूप्यकाधिकव्ययेन निर्मीयमाणायाः पॉलीप्रोपाइलीन इकायाः शिलान्यासं करिष्यति। प्रतिवर्षं ४०० किलोटन क्षमता युक्ता एषा इकाई पैकेजिंग, मोटरयानउद्योग, चिकित्सायन्त्रनिर्माण तथा वस्त्रउद्योगादिषु प्रयुज्यमानसामग्रीणां देशीयउत्पादनं सुदृढं करिष्यति।

सड़कअवसंरचनाक्षेत्रे प्रधानमन्त्री राष्ट्रीय राजमार्ग ६६ इत्यस्य थलापडी-चेंगला खण्डस्य षट्पथपरियोजनायाः तथा वेंगलम इत्यतः रामनट्टुकरा पर्यन्तं कोझिकोड बाईपास षट्पथपरियोजनायाः उद्घाटनं करिष्यति। एते परियोजने क्षेत्रे यातायातसुगमतां, मार्गसुरक्षां तथा पर्यटनविकासं प्रोत्साहयिष्यतः।

प्रधानमन्त्री प्रधानमन्त्री ग्राम सड़क योजना अन्तर्गतं निर्मितानां २३ ग्राममार्गाणाम् अपि उद्घाटनं करिष्यति। तेन सह अमृत भारत स्टेशन योजना अन्तर्गतं पुनर्विकसितानां षोरणूर जंक्शन, कुट्टिप्पुरम तथा चंगनाशेरी इत्येषां रेलस्थानकानाम् उद्घाटनं भविष्यति। अपि च षोरणूर-निलांबुर रेलमार्गविद्युतीकरणपरियोजना राष्ट्राय समर्पिता भविष्यति।

प्रधानमन्त्री पलक्कड़-पोल्लाच्चि इत्ययोः मध्ये नूतनां रेलसेवां हरितध्वजेन आरम्भयिष्यति, येन केरल तथा तमिलनाडु राज्ययोः मध्ये रेलसंपर्कः अधिकं सुदृढः भविष्यति। अस्याः सेवायाः लाभः नित्ययात्रिकेभ्यः, तीर्थयात्रिकेभ्यः, व्यापारिभ्यः तथा पर्यटकेभ्यः भविष्यति।

प्रधानमन्त्री कोल्लम जिल्लायाः वेस्ट कल्लाडा क्षेत्रे ५० मेगावाट क्षमता युक्तायाः तैर्यमाणसौरऊर्जापरियोजनायाः अपि शिलान्यासं करिष्यति, या स्वच्छऊर्जाविकासं प्रोत्साहयिष्यति।

तिरुचिरापल्ली नगरे प्रधानमन्त्री भारत पेट्रोलियम कॉर्पोरेशन लिमिटेड संस्थायाः सिटी गैस डिस्ट्रीब्यूशन नेटवर्क परियोजनायाः शिलान्यासं करिष्यति, यस्य व्ययः ३,६८० कोटिरूप्यकाधिकः अस्ति। एषा योजना नीलगिरि तथा इरोड जिलयोः लक्षाधिकगृहेषु पाइपद्वारा प्राकृतिकगैसस्य आपूर्तिं करिष्यति तथा अनेके सीएनजी इन्धनकेन्द्राः स्थापयिष्यन्ते।

प्रधानमन्त्री इंडियन ऑयल कॉर्पोरेशन संस्थायाः चेन्नई स्थिते मणाली क्षेत्रे प्रतिवर्षं ६७२ सहस्र मेट्रिकटन क्षमता युक्तं ल्यूब ब्लेंडिंग संयंत्रं राष्ट्राय समर्पयिष्यति।

अतिरिक्ततया प्रधानमन्त्री ग्रामसंपर्कवृद्धये तमिलनाडु राज्ये ३७० किलोमीटर दीर्घाणां ८९ ग्राममार्गाणाम् उद्घाटनं करिष्यति तथा राष्ट्रीय राजमार्ग ८१ इत्यस्मिन् गंगईकोंडा चोलापुरम समीपे ग्रीनफील्ड बाईपासपरियोजनायाः शिलान्यासं करिष्यति।

अस्मिन् अवसरे प्रधानमन्त्री द्वे अमृत भारत एक्सप्रेस रेलयानसेवे, द्वे एक्सप्रेस रेलयाने तथा एकां यात्रिकरेलसेवां हरितध्वजेन आरम्भयिष्यति, येन तमिलनाडु राज्यस्य रेलसंपर्कव्यवस्था अधिकं सुदृढा भविष्यति।

-----------

हिन्दुस्थान समाचार