Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 10 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः मङ्गलवासरे राष्ट्रपतिभवनस्य सांस्कृतिककेन्द्रे आन्ध्रप्रदेश, कर्नाटक, केरल, हरियाणा, उत्तरप्रदेश तथा पञ्जाब इत्येषां राज्याणां सांसदान् आतिथ्येन अभिनन्दितवती।
अस्मिन् अवसरे उपराष्ट्रपतिः सीपी राधाकृष्णन, पूर्वप्रधानमन्त्री एचडी देवेगौड़ा, रक्षामन्त्री राजनाथ सिंह, स्वास्थ्य मन्त्री जेपी नड्डा तथा वित्तमन्त्री निर्मला सीतारमण सहिताः बहवः केन्द्रीयमन्त्रिणः अपि उपस्थिताः आसन्।
राष्ट्रपतिभवनस्य सांस्कृतिककेन्द्रे आयोजिते अस्मिन् कार्यक्रमे सांसदाः तथा केन्द्रीयमन्त्रिणः परस्परं संवादं कृतवन्तः तथा विविधविषयेषु विचाराणां आदानप्रदानं कृतवन्तः। अस्मिन् कार्यक्रमे विभिन्नराज्यानां जनप्रतिनिधीनां सहभागिता अभवत्।
उल्लेखनीयं यत् राष्ट्रपतिः मुर्मु समयसमये विभिन्नराज्यानां सांसदैः सह संवादकार्यक्रमान् आयोजयति, येन राज्यप्रतिनिधिभिः सह संवादः सहयोगश्च अधिकं सुदृढः कर्तुं शक्यते।
---------------
हिन्दुस्थान समाचार