अयोध्यां प्राप्नोत् 11 सदस्यीयं दक्षिण कोरियाईदेशीयं दलम्, मातामही रानी प्रणता
-महापौरः अकरोत्स्वागतं, स्मारकस्य विकासे सहयोगस्य अनुबंधः -रानी हो कारणेन अयोध्यायै लब्धो वैश्विकःपरिचयः त्रिपाठी अयोध्या, 10 मार्चमासः (हि.स.)। दक्षिणकोरियादेशस्य एकादशसदस्यीयः प्रतिनिधिमण्डलः मङ्गलवासरे अयोध्यां प्राप्तवान् तथा च राजकुमारी
कोरियाई दल


-महापौरः अकरोत्स्वागतं, स्मारकस्य विकासे सहयोगस्य अनुबंधः

-रानी हो कारणेन अयोध्यायै लब्धो वैश्विकःपरिचयः त्रिपाठी

अयोध्या, 10 मार्चमासः (हि.स.)।

दक्षिणकोरियादेशस्य एकादशसदस्यीयः प्रतिनिधिमण्डलः मङ्गलवासरे अयोध्यां प्राप्तवान् तथा च राजकुमारी सूरीरत्ना (दक्षिणकोरियस्य गया-राज्यस्य महाराणी हेलो ह्वाङ्ग-ओक) स्मारके श्रद्धासुमनानि अर्पितवान्।

अस्मिन् अवसरॆ महापौरः महन्तगिरीशपतित्रिपाठी स्वया पत्नी श्रीमती राजलक्ष्मीत्रिपाठी-सह कोरियप्रतिनिधिमण्डलस्य अङ्गवस्त्रैः तथा प्रभोः श्रीरामस्य प्रतिमां प्रदाय स्वागतं कृतवान्। तस्मिन् समये महापौरः रानीहो-मेमोरियल-पार्कस्य विकासे सर्वथा सहयोगं दास्यामि इति आश्वासनं दत्तवान्। अद्यतनकाले एतत् स्मारकं नगरनिगमेन पर्यटनविभागात् अधिगृहीतम् अस्ति।

दक्षिणकोरियागणराज्यस्य एतत् एकादशसदस्यीयं प्रतिनिधिमण्डलं इञ्चियोन-लीक्वान-एसोसिएशनस्य अध्यक्षस्य लीजिनओके-महाभागस्य नेतृत्वे स्वमातामही रानीहो-संबद्धाः स्मृतयः पुनः जागरयितुं मङ्गलवासरे अयोध्यां आगतम्।

दुभाषियस्य माध्यमेन सम्पन्नायां वार्तायां प्रतिनिधिमण्डलेन रानीहो-मेमोरियल-पार्के पूजास्थलस्य विकासस्य आवश्यकता व्यक्ता। महापौरः स्मारकस्य विकासे सर्वप्रकारेण सहयोगं दास्यामि इति पुनः प्रतिज्ञातवान्। तेन अस्य कार्यस्य कृते भारतीयदूतावासस्य माध्यमेन पत्रव्यवहारः कर्तव्यः इति सुझावः अपि दत्तः।

प्रतिनिधिमण्डलेन सूचितं यत् आगामी ६ अक्टूबर-दिने शतसदस्यीयं प्रतिनिधिमण्डलं रानीहो-प्रति श्रद्धां व्यक्तुं अयोध्यां आगमिष्यति। तैः अपि अप्रैलमासे दक्षिणकोरियायाम् आयोज्यमाने कार्यक्रमे आगन्तुं महापौरः निमन्त्रितः ।

हिन्दुस्थान समाचार