Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ११ मार्चमासः (हि.स.)।बस्तर–प्रदेशे नक्सलवाद–विरुद्धं प्रवर्तमानस्य अभियानस्य मध्ये बुधवासरे ‘पूना–मारगेम–पुनर्वासेन पुनर्जीवनम्’ इत्यस्य प्रयत्नस्य अन्तर्गतं दण्डकारण्य–स्पेशल–जोनल–कमेटी (डीकेएसजेडसी) इत्यस्य सम्बन्धिनः आहत्य १०८ नक्सलवादिनः समाजस्य मुख्यधारायां प्रत्यागन्तुं सज्जाः सन्ति।
एषः कार्यक्रमः बस्तर–सम्भागस्य मुख्यालये जगदलपुरे स्थिते शौर्य–भवने, आरक्षक–कोऑर्डिनेशन–केन्द्रे, लालबाग–क्षेत्रे च अपराह्णे द्विवादने आयोजितः भविष्यति। अस्मिन् कार्यक्रमे समाजस्य वरिष्ठ–नागरिकाः, आरक्षक–अधिकारीणः, केन्द्रीय–सुरक्षा–बलानां प्रतिनिधयः तथा जनपद–प्रशासनस्य अधिकारिणः उपस्थिताः भविष्यन्ति। तेषां साक्षिणां मध्ये माओवादिनः हिंसामार्गं परित्यज्य सामान्य–जीवनस्य दिशि नूतनं पदं स्थापयिष्यन्ति।
आरक्षक–अधिकारिणां कथनानुसारं समर्पितदलेभ्यः प्राप्तसूचनानां आधारेण नक्सल–विरोधि–अभियानेषु अद्यावधि सर्वाधिका बृहत्तमा शस्त्र–सामग्रीगृहीता अस्ति। अस्य विषये बस्तर–परिक्षेत्रस्य महानिरीक्षकः सुन्दरराज–पी सूचनां दत्तवान्।
प्राप्त–सूचनानुसारं बीजापुर–जनदेन सह बस्तर–परिक्षेत्रस्य विभिन्नेषु जनपदेषु अरण्येषु निगूढतया स्थापितानि शस्त्राणि, विस्फोटक–द्रव्याणि अन्यसामग्री च सुरक्षा–बलैः प्राप्तानि। एतानि सर्वाणि अद्य कार्यक्रमस्य अवसरे प्रदर्शितानि भविष्यन्ति।
गत–वर्षेषु बस्तर–प्रदेशे नक्सली–संगठनं निरन्तरं आघातान् अनुभूतवान्। समर्पण–पुनर्वास–नीतेः अन्तर्गतं बहवः नक्सलवादिनः शस्त्राणि त्यक्त्वा मुख्यधारायां प्रत्यागच्छन्ति। आरक्षक–विवरणानुसारं गतद्विवर्षयोः २७०० अधिकाः नक्सलवादिनः आत्मसमर्पणं कृतवन्तः, येषु केचन पुरस्कार–घोषिताः अपि आसन्। एतेभ्यः समर्पित–नक्सलेभ्यः शासनस्य पुनर्वास–योजनायाः अन्तर्गतं आर्थिक–सहायता, आवास–सुविधा, प्रशिक्षणं आजीविका–अवसराश्च प्रदीयन्ते।
सुरक्षा–बलानां मतानुसारं निरन्तरम् अभियानैः तथा समर्पण–प्रक्रियया नक्सली–संगठनस्य शक्ति–जालं च दुर्बलितं जातम्। ‘पूना–मारगेम’ अपि संघटनं परित्यज्य सामान्य–जीवनं स्वीकर्तुं प्रवृत्तिं वर्धयति।
उल्लेखनीयं यत् गतवर्षे अपि बहवः नक्सलवादिनः आत्मसमर्पणं कृतवन्तः। ३१ मार्चमासे २०२५ तमे वर्षे बीजापुरे ५० नक्सलवादिनः शस्त्राणि त्यक्त्वा समर्पितवन्तः। २४ सितम्बरमासे २०२५ तमे वर्षे दन्तेवाडा–जनपदे ७१ नक्सलवादिनः आत्मसमर्पणं कृतवन्तः। ३ अक्टूबरमासे २०२५ तमे वर्षे बीजापुरे १०३ नक्सलवादिनः समर्पितवन्तः, येषु महिलाः अपि आसन्। ९ अक्टूबरमासे २०२५ तमे वर्षे १६ नक्सलवादिनः आत्मसमर्पणं कृतवन्तः। १७ अक्टूबरमासे २०२५ तमे वर्षे केन्द्रीय–समिति–सदस्यः सतीश–उर्फ–रूपेशेन सह २१० नक्सलवादिनः समर्पितवन्तः, यत् छत्तीसगढ–इतिहासे महत्त्वपूर्णेषु समर्पणेषु अन्यतमं मन्यते। २६ नवम्बरमासे २०२५ तमे वर्षे सुकमा तथा नारायणपुर–जनपदयोः ४३ नक्सलवादिनः आत्मसमर्पणं कृतवन्तः। ५ फरवरीमासे २०२६ तमे वर्षे बीजापुरे १२ नक्सलवादिनः समर्पणं कृतवन्तः। ७ मार्चमासे २०२६ तमे वर्षे तेलङ्गान–राज्ये अपि १३० नक्सलवादिनः आत्मसमर्पणं कृतवन्तः।
अद्य ११ मार्चमासे २०२६ तमे दिने जगदलपुरे १०८ नक्सलवादिनः समाजस्य मुख्यधारायां प्रत्यागन्तुं सज्जिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता