Enter your Email Address to subscribe to our newsletters

लखनऊ, 11 मार्चमासः (हि.स.)। अयोध्यायां श्रीरामजन्मभूमौ मार्चमासस्य १९ तमे दिने भव्यम् वर्षप्रतिपदा समारोहः भविष्यति। अस्मिन् समारोह एव भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु महोदया, अमृतानन्दमयी माता, तथा वीरेन्द्र हेग्गडे महोदयः अपि सहभागी भविष्यन्ति।
अस्मिन् अवसरे एव राष्ट्रपतिः श्रीरामजन्मभूमि मन्दिरस्य द्वितीयतले स्थिते गर्भगृहे श्रीरामयन्त्रस्य प्रतिष्ठां करिष्यति।
वर्षप्रतिपदादिने आयोज्यमाने अस्मिन् समारोह एव श्रीरामजन्मभूमि तीर्थक्षेत्र ट्रस्टस्य अध्यक्षः नृत्यगोपालदास महाराजः, वसुदेवानन्द सरस्वती जगद्गुरुः, विश्वप्रसन्नतीर्थ जगद्गुरुः, दत्तात्रेय होसबाले महोदयः, आनन्दीबेन पटेल महोदया, तथा योगी आदित्यनाथः इत्यादयः अपि, ट्रस्टस्य सर्वे पदाधिकारी च उपस्थिताः भविष्यन्ति।
कार्यक्रमे राष्ट्रपतिः मुर्मु महोदया निमन्त्रितान् अतिथीन् सम्बोधयिष्यति। राष्ट्रपतेः मन्दिरपरिसरात् प्रस्थानानन्तरं निमन्त्रिताः जनाः श्रीराममन्दिरस्य दर्शनं करिष्यन्ति।
अस्य कार्यक्रमस्य सर्वाः व्यवस्थाः अन्तिमरूपेण सिद्धाः सन्ति। कार्यक्रमस्य सुचारुरूपेण आयोजनार्थं विश्वहिन्दू परिषद् संस्थायाः प्रान्तीय क्षेत्रीय पदाधिकारी अयोध्यां प्राप्तवन्तः।
कार्यक्रमे सहभागी भवितुं समित्या विशिष्टमहानुभावेभ्यः निमन्त्रणपत्राणि प्रेष्यन्ते। एवञ्च योगी आदित्यनाथः गुरुवासरे अयोध्यां गत्वा राष्ट्रपतेः आगमनात् पूर्वं कार्यक्रमस्य व्यवस्थां परीक्षिष्यति।
हिन्दुस्थान समाचार