Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ११ मार्चमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–शर्मा अवदत् यत् भारतस्य प्रधानमन्त्री नरेन्द्र–मोदी १३ तथा १४ मार्चमासयोः द्विदिवसीय–प्रवासाय असमप्रदेशम् आगमिष्यति। अस्मिन् अवसरे सः बहूनां विकास–परियोजनानां उद्घाटनं करिष्यति तथा चाय–उद्यान–समुदायस्य सदस्येभ्यः भूमेः स्वामित्व–पत्राणि वितरिष्यति।
मुख्यमन्त्री पत्रकार–प्रतिनिधीन् सम्बोधयन् अवदत् यत् प्रधानमन्त्री अस्मिन् भ्रमणे प्रायः १० सहस्र–कोटि–रूप्यकाणां परियोजनाः राष्ट्राय समर्पयिष्यति। प्रधानमन्त्री स्वस्य भ्रमणस्य आरम्भं कोकराझार–नगरात् करिष्यति, यत्र सः अनेकासां विकास–परियोजनानां उद्घाटनं करिष्यति तथा तासां शिलान्यासं अपि करिष्यति।
१३ मार्चमासे प्रधानमन्त्री गुवाहाटी–नगरे आयोजिते कार्यक्रमे अपि सहभागी भविष्यति तथा ‘प्रधानमन्त्री–किसान–सम्मान–निधि’-योजनायाः एकं पर्यायं प्रेषयिष्यति। अस्य भ्रमणस्य विशेषता भविष्यति चाय–उद्यान–समुदायस्य सदस्येभ्यः भूमेः पट्ट–वितरणम्। अयं समुदायः प्रायः द्विशतवर्षेभ्यः असम–राज्ये निवसति, तथापि अद्यावधि बहवः जनाः भूमेः औपचारिक–स्वामित्वाधिकारं न प्राप्तवन्तः।
डॉ.हिमन्त–बिस्व–शर्मा उक्तवान् यत् प्रधानमन्त्री चाय–उद्यान–श्रमिकेभ्यः भूमेः प्रथमं स्वामित्व–पत्रं प्रदास्यति। अनेन माध्यमेन राज्ये चाय–उद्यान–परिवाराणां कृते भूमेः स्वामित्वाधिकार–प्रदान–कार्यक्रमस्य औपचारिकः आरम्भः भविष्यति।
१४ मार्चमासे प्रधानमन्त्री सिल्चर–नगरस्य भ्रमणं करिष्यति। तत्र सः सिल्चर–शिलांग–गुवाहाटी द्रुतमार्ग–परियोजनायाः शिलान्यासं करिष्यति, यस्य अनुमानितः व्ययः प्रायः २२ सहस्र–कोटि–रूप्यकाणि अस्ति। मुख्यमन्त्री अवदत् यत् प्रधानमन्त्री कोपिली–जलविद्युत्–परियोजनां अपि राष्ट्राय समर्पयिष्यति, या राज्य–सर्वकारस्य १५० मेगावाट्–क्षमतायाः परियोजना अस्ति। अस्मिन् द्विदिवसीय–प्रवासे प्रधानमन्त्री कोकराझार-गुवाहाटी-सिल्चर–नगरेषु आयोजितासु जनसभासु अपि सम्बोधनं करिष्यति।
एतन्मध्ये केन्द्रीय–गृहमन्त्री अमित–शाहः १५ मार्चमासे असम–राज्यस्य प्रवासं करिष्यति। सः गुवाहाटी–नगरे प्राग्ज्योतिषपुर–चिकित्सामहाविद्यालयस्य उद्घाटनं करिष्यति तथा भारतीय–जनता–पक्षेण आयोजिते ‘युवा–संकल्प–समावेशे’ अपि सहभागी भविष्यति। प्रदेश–भाजपा–सूचनानुसारं खानापारा–स्थिते वेटरनरी–महाविद्यालय–क्रीडाङ्गणे आयोजिते अस्मिन् कार्यक्रमे दलस्य प्रायः एकलक्षाधिकाः युवा–कार्यकर्तारः सहभागित्वं करिष्यन्ति इति अपेक्षा व्यक्ता अस्ति।
एते भ्रमण–कार्यक्रमाः तस्मिन् समये आयोज्यन्ते यदा असम–राज्ये भाजपा–नेतृत्वस्य सर्वकारः २०२६ तमे वर्षे आयोज्यमानानां राज्य–विधानसभा–निर्वाचनानां कृते सज्जतां करोतिः, यत्र पक्षः तृतीयवारं सत्तायां आगन्तुं लक्ष्यं निर्धारयति।
हिन्दुस्थान समाचार / अंशु गुप्ता