Enter your Email Address to subscribe to our newsletters

कोलकाता, 11 मार्चमासः (हि.स.)।पश्चिमबङ्गालस्य निवर्तमानः राज्यपालः सी. वी. आनन्द बोस स्वकार्यकालस्य समापनात् पूर्वं बुधवासरे राज्यस्य जनानां नाम भावपूर्णं मुक्तपत्रं प्रकाशितवान्। अस्मिन् पत्रे सः बङ्गालवासिनां स्नेहस्य सहयोगस्य च कृते कृतज्ञतां प्रकटयन् अवदत् यत् तस्य पश्चिमबङ्गालेन सह सम्बन्धः अनागतेऽपि कालि निरन्तरं स्थास्यति।
स्वपत्रे सः लिखितवान् यत् कोलकातानगरे स्थिते लोकभवने तस्य कार्यकालः समाप्तिं गच्छति, किन्तु पश्चिमबङ्गालेन सह तस्य यात्रा अद्यापि न समाप्ता। राज्यं स्वद्वितीयगृहं इति निर्दिश्य सः उक्तवान् यत् भविष्येऽपि कस्यचित् रूपेण बङ्गालेन सह सम्बद्धः भविष्यति।
राज्यपालः अवदत् यत् स्वकार्यकालस्य समये तस्मै राज्यस्य विभिन्नेषु प्रदेशेषु भ्रमणं कर्तुं सामान्यजनैः सह मिलितुं च अवसरः प्राप्तः। सः ग्रामेषु, कस्बेषु, नगरेषु च जनैः सह संवादं कृत्वा तेषां सह समयं व्यतीतवान् तथा समाजस्य विविधतां सांस्कृतिकसमृद्धिं च समीपतः अवलोकितवान्।
स्वपत्रे सः महात्मा गान्धी इत्यस्य उल्लेखं कृत्वा अवदत् यत् यथा गान्धीमहाशयेन बङ्गालेन सह स्वस्य गाढसम्बन्धः व्यक्तीकृतः आसीत्, तथैव सः अपि अस्य राज्यस्य आकर्षणात् स्वं पृथक् कर्तुं न शक्नोति।
सः रवीन्द्रनाथ ठाकुर इत्यस्य एकस्य विचारस्य अपि उल्लेखं कृत्वा अवदत् यत् वास्तविकसेवा ईश्वरानुभूतिश्च सामान्यजनानां मध्ये, श्रमिकेषु समाजस्य साधारणजीवने च दृश्यते।
राज्यपालः स्वानुभवान् अपि साझीकृत्य अवदत् यत् बालानां उत्साहपूर्णेषु नेत्रेषु, वृद्धानां स्नेहे, सामान्यजनानां आत्मीयतायां च सः बङ्गालस्य वास्तविकां शक्तिं दृष्टवान्।
अन्ते सः राज्यस्य उज्ज्वलभविष्यस्य कामनां कृत्वा उक्तवान् यत् पश्चिमबङ्गालः आगामिषु कालेषु नूतनान् उच्चशिखरान् स्पृशतु तथा अत्र वसतां सर्वेषां जनानां जीवने समृद्धिः स्वास्थ्यं च स्थिरं भवतु। सः माता दुर्गा प्रति राज्यजनानां रक्षणार्थं प्रार्थनाम् अपि कृतवान्।स्वसन्देशस्य समापनं सः “वन्दे मातरम्” इति पदेन कृतवान्।
हिन्दुस्थान समाचार