मदुरैनगरे मीनाक्षी–चिथिरै महोत्सवः १९ अप्रैलमासे आरभ्स्यते
मदुरैनगरम्, ११ मार्चमासः (हि.स.)।तमिलनाडुराज्ये प्रसिद्धः ऐतिहासिकः धार्मिकः उत्सवः मदुरै–चिथिरै–महोत्सवः कार्यक्रमाणां अधिकारिकं प्रकाशनं प्राप्तवान्। अस्मिन् वर्षे महोत्सवः १९ अप्रैलमासे ध्वजारोहेण प्रारभ्य १ मईमासपर्यन्तं सञ्चालितं भविष्यति। मद
Madurai temple file shot


मदुरैनगरम्, ११ मार्चमासः (हि.स.)।तमिलनाडुराज्ये प्रसिद्धः ऐतिहासिकः धार्मिकः उत्सवः मदुरै–चिथिरै–महोत्सवः कार्यक्रमाणां अधिकारिकं प्रकाशनं प्राप्तवान्। अस्मिन् वर्षे महोत्सवः १९ अप्रैलमासे ध्वजारोहेण प्रारभ्य १ मईमासपर्यन्तं सञ्चालितं भविष्यति।

मदुरै–मीनाक्षी–मन्दिरस्य व्यवस्थापन–समित्या विस्तीर्ण–कार्यक्रमविवरणं प्रकाशितम्। मुख्यकार्यक्रमेषु मीनाक्षी–तिरुकल्याणम् (दिव्यविवाहः), रथ–उत्सवः, तथा कल्लाझगरस्य वैगई–नद्यां अवतरणं सम्मिलितम्।

निर्दिष्टं यत् १९ अप्रैलमासे ध्वजारोहेण महोत्सवः प्रारभ्स्यते। २६ अप्रैलमासे मीनाक्षी–अम्बिकायाः पट्टाभिषेकः आयोज्यते। २७ अप्रैलमासे मीनाक्षी–सुन्दरेश्वरस्य दिव्य–विवाहः (तिरुकल्याणम्) सम्पन्नः भविष्यति। २८ अप्रैलमासे प्रसिद्धः रथ–उत्सवः आयोज्यते। २९ अप्रैलमासे कल्लाझगरस्य एधिरसेवायाः (स्वागतम्) कार्यक्रमः भविष्यति। ३० अप्रैलमासे कल्लाझगरः वैगई–नद्यां अवतरिष्यति। १ मईमासे कल्लाझगरस्य प्रतिगमनस्य कार्यक्रमः आयोज्यते। एतेषां कार्यक्रमाणां समाप्तेः पश्चात् दीर्घकालपर्यन्तं चलितः मदुरै–चिथिरै–महोत्सवः समाप्स्यते।

उल्लेखनीयं यत् अस्य महोत्सवस्य प्रतीक्षायां न केवलं मदुरै–निवासिनः किन्तु सम्पूर्ण–तमिलनाडु–जनाः अपि उत्सुकतया उपस्थिताः सन्ति। अस्मिन् महोत्सवे श्रद्धालवः सहभागिनः भवन्ति। अयं महोत्सवः आध्यात्मिक–पर्व इत्युच्यते। महोत्सवः मदुरै–संस्कृतिः, भक्ति–परम्पराः च विश्वस्य पुरतः प्रस्तूयमानः महत्त्वपूर्णः उत्सवः अस्ति, यः प्रतिवर्षं महता उत्साहेन आयोज्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता