प्रधानमन्त्री मोदी अद्य केरल–तमिलनाडु–राज्ययोः कोटि–रूप्यक–मूल्यस्य विकास–परियोजनानां उद्घाटनं करिष्यति, अनेकानां च आधारशिलां स्थापयिष्यति
नवदिल्ली, ११ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी अद्य देशस्य द्वयोः राज्ययोः केरल–तमिलनाडु–राज्ययोः प्रवासं करिष्यति। अस्मिन् अवसरे सः उभयोः राज्ययोः प्रायः १६,४५० कोटि–रूप्यक–मूल्यस्य विविध–विकास–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यत
082ef530bcd2ee729eaeba0c2e63084e_1074572539.jpg


नवदिल्ली, ११ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी अद्य देशस्य द्वयोः राज्ययोः केरल–तमिलनाडु–राज्ययोः प्रवासं करिष्यति। अस्मिन् अवसरे सः उभयोः राज्ययोः प्रायः १६,४५० कोटि–रूप्यक–मूल्यस्य विविध–विकास–परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्री–कार्यालयस्य (पीएमओ) सूचनानुसारं प्रधानमन्त्री नरेन्द्र–मोदी अपराह्णे प्रायः १:३० वादने केरल–राज्यस्य एर्नाकुलम्–नगरे प्रायः १०,८०० कोटि–रूप्यक–मूल्यस्य विकास–परियोजनानां शुभारम्भं करिष्यति। अस्मिन् अवसरे सः समारोहम् अपि सम्बोधयिष्यति। ततः अनन्तरं प्रधानमन्त्री सायं प्रायः ५:४५ वादने तमिलनाडु–राज्यस्य तिरुचिरापल्ली–नगरे प्रायः ५,६५० कोटि–रूप्यक–मूल्यस्य परियोजनानां उद्घाटनं, शिलान्यासं लोकार्पणं च करिष्यति।

पीएमओ–सूचनानुसारं प्रधानमन्त्री मोदी एर्नाकुलम्-नगरे भारत–पेट्रोलियम–कॉर्पोरेशन–लिमिटेड् (बीपीसीएल) इत्यस्य कोच्चि–रिफाइनरी–स्थले ५,५०० कोटि–रूप्यकेभ्यः अधिक–व्ययेन निर्मीयमाणस्य पॉलीप्रोपाइलीन–विभागस्य शिलान्यासं करिष्यति। प्रतिवर्षं ४०० किलो–टन–क्षमतायुक्ता एषः विभागः पैकेजिंग–वाहन–उद्योग–चिकित्सा–उपकरण–वस्त्र–उद्योगादिषु प्रयुज्यमानानां सामग्रीणां देशीय–उत्पादनं सुदृढं करिष्यति।

प्रधानमन्त्री–कार्यालयस्य अनुसारं सः मार्ग–अवसंरचना–क्षेत्रे राष्ट्रीय–राजमार्ग–६६ अन्तर्गतं थलापडी–चेंगला–खण्डस्य षट्–लेन–परियोजनां तथा वेंगलम्–रामनट्टुकरा–पर्यन्तं कोझिकोड–बाईपासस्य षट्–पंक्ति–परियोजनाम् उद्घाटयिष्यति। एते परियोजनाद्वयं क्षेत्रे यातायात–सौविध्यम्, मार्ग–सुरक्षां पर्यटनं च प्रोत्साहयिष्यतः।

प्रधानमन्त्री केरल–राज्ये प्रधानमन्त्री–ग्राम–सड़क–योजनायाः (पीएमजीएसवाई) अन्तर्गतं निर्मितानां २३ ग्राम्य–मार्गाणाम् अपि उद्घाटनं करिष्यति। अनेन सह अमृत–भारत–स्टेशन–योजनान्तर्गतं पुनर्विकसितानां षोरणूर–जंक्शन, कुट्टिप्पुरम्, चंगनाशेरी इत्येतेषां रेल–स्थानकानाम् उद्घाटनं करिष्यति। अतिरिक्ततया षोरणूर–निलांबुर–रेल–मार्गस्य विद्युतीकरण–परियोजनां राष्ट्राय समर्पयिष्यति।

प्रधानमन्त्री पलक्कड–पोल्लाच्चि–मध्यस्थां नूतनां रेल–सेवां हरित–ध्वजेन प्रदर्शयिष्यति, येन केरल–तमिलनाडु–राज्ययोः रेल–संयोजनं अधिकं सुदृढं भविष्यति।

प्रधानमन्त्री केरल–राज्यस्य कोल्लम्–जनपदस्य वेस्ट–कल्लाडा–प्रदेशे ५० मेगावाट–क्षमतायुक्तायाः फ्लोटिंग–सोलर–परियोजनायाः आधारशिलां स्थापयिष्यति, या स्वच्छ–ऊर्जा–प्रोत्साहने सहाय्यं करिष्यति।

तिरुचिरापल्ली–नगरे प्रधानमन्त्री भारत–पेट्रोलियम–कॉर्पोरेशन–लिमिटेड् इत्यस्य सिटी–गैस–डिस्ट्रिब्यूशन–नेटवर्क–परियोजनायाः आधारशिलां स्थापयिष्यति, यस्य व्ययः ३,६८० कोटि–रूप्यकेभ्यः अधिकः अस्ति। एषा परियोजना नीलगिरि–इरोड–जनपदयोः लक्षशः गृहेषु पाइप–मार्गेण प्राकृतिक–गैस–आपूर्तिं करिष्यति तथा बहवः सीएनजी–स्थानकाः स्थापयिष्यन्ते।

तथैव प्रधानमन्त्री मोदी इण्डियन–ऑयल–कॉर्पोरेशन इत्यस्य चेन्नई–स्थिते मणाली–प्रदेशे प्रतिवर्षं ६७२ सहस्र–मीट्रिक–टन–क्षमतायुक्तं ल्यूब–ब्लेण्डिंग–प्लांट इत्यपि राष्ट्राय समर्पयिष्यति। अतिरिक्ततया प्रधानमन्त्री ग्रामीण–संयोजनं वर्धयितुं तमिलनाडु–राज्ये ३७० किलोमीटर–दीर्घान् ८९ ग्राम्य–मार्गान् उद्घाटयिष्यति तथा एनएच–८१ मार्गे गंगैकोंडा–चोलापुरम् समीपे ग्रीनफील्ड–बाईपास–परियोजनायाः आधारशिलां स्थापयिष्यति।

अस्मिन् अवसरे प्रधानमन्त्री द्वे अमृत–भारत–एक्सप्रेस रेलयान–सेवे, द्वे एक्सप्रेस–रेलयान–सेवे तथा एकां यात्री–रेल–सेवां हरित–ध्वजेन प्रदर्शयिष्यति, येन तमिलनाडु–राज्यस्य रेल–संयोजन–व्यवस्था अधिका सुदृढा भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता