Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ मार्चमासः (हि.स.)। राष्ट्रपति द्रौपदी-मुर्मु अवदत् यत् जल–संरक्षणं सर्वेषां सामूहिक–कर्तव्यं अस्ति। जलं केवलं उपयोग–वस्तुरूपेण न अपितु अग्रिमवंशस्य अमूल्य–धरोहररूपेण पश्येत्। भविष्यं सुरक्षितुं जल–संरक्षणं जीवनस्य तथा आचारस्य अविभाज्य–अङ्गं कर्तव्यम्।
राष्ट्रपतिः बुधवासरे आयोजिते जल–महोत्सवः २०२६ मध्ये उक्तवति यत् भारतदेशे जलं केवलं मूलभूत–सौविध्यं नास्ति, अपितु एतत् संस्कृतेः, परम्पराणां, आजीविकायाः तथा सामुदायिक–जीवनस्य अपि अविभाज्य–अङ्गम् अस्ति।अतीतेषु ग्रामे जनाः, विशेषतः स्त्रियः तथा बालकाः, पानीयजलस्य कृते दूरं गन्तुं बाध्याः भवन्ति स्म। स्वच्छ–पेयजलस्य उपलब्धिः केवलं सौविध्य–विषयः न आसीत्, अपितु समयः, स्वास्थ्यं तथा सम्मान–सङ्गतम् इत्येतैः अपि सम्बद्धम् आसीत्। एतासु काठिन्य-परिस्थितिषु केंद्र–सर्वकारेण जल–जीवन–अभियानमारब्धम्, यस्मात् ग्रामे स्वच्छं तथा सुरक्षितं पानीयजलं गृहे उपलब्धं भवति।
राष्ट्रपतिः अवदत् यत् यदा संसाधनस्य उत्तरदायित्वं सर्वकारसहितं सम्पूर्ण–समाजेन वह्यते, तदा तस्य संरक्षणं अधिका प्रभावशाली तथा स्थायी भवति। जल–प्रबन्धन–संरक्षणे सामुदायिक–स्वामित्वस्य भूमिका अतीव महत्वपूर्णा। ‘जल–अर्पण–दिवसः’ इत्यस्य अन्तर्गतं जल–आपूर्ति–संरचना ग्राम–पञ्चायतेभ्यः प्रदत्ता, इत्यस्मात् सामुदायिक–स्वामित्वस्य भावना दृढा भविष्यति।
स्वयं–सहायता–समूहाः जल–परीक्षणे, संचालन–रक्षणे च सक्रियं भागं गृह्णन्ति। एतेषां समूहानां प्रतिबद्धता तथा समर्पणं स्त्रीणां तथा समाजस्य जीवनं सकारात्मकरूपेण परिवर्तयति। राष्ट्रपतिः अवदत् यत् स्वयं–सहायता–समूहानां माध्यमेन स्त्रीणां सामर्थ्यं जल–सुरक्षां सुनिश्चित्य अत्यन्तं उपयोगी स्यात्।
जल–सुरक्षां दृढीकर्तुं बहु-आयामी–समन्वित–प्रयासाः आवश्यकाः। ग्रामीण–क्षेत्रेषु स्वच्छ–भारत–अभियानेन सह समन्वयं कृत्वा ग्रे–वॉटर–प्रबन्धनं प्रवर्ध्यते। तथा केन्द्रीय–भूजल–मण्डलम् अन्ये च संस्थाः सहैव कार्यं कुर्वन्ति।
‘कैच–द–रेन’ तथा ‘जल–संचय–जन–सहभागिता’ इत्यादीनि अभियानानि वर्षा–जल–संचयं प्रवर्धयन्ति। एतेषु समन्वित–प्रयासेषु राष्ट्रस्य जल–सुरक्षा सुनिश्चिता भविष्यति।
यूनां मध्ये जल–प्रबन्धन–संरक्षणस्य जागरूकता, भविष्ये राष्ट्रस्य जल–सुरक्षा-दृढीकरणं करिष्यति। जल–महोत्सवः भारतस्य जल–सुरक्षा–जन-आन्दोलनस्य माध्यमं भविष्यति।
उल्लेखनीयं यत् जल–शक्ति–मन्त्रालयेन ८ मार्चामासात् २२ मार्चमासपर्यन्तं ‘जल–महोत्सवः २०२६’ आयोज्यते, यस्य उद्देश्यं ग्राम–पेयजल–सेवासु जनसहभागिता तथा सामुदायिक–स्वामित्वं दृढीकर्तुं अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता