Enter your Email Address to subscribe to our newsletters

सिलीगुड़ी, 11 मार्चमासः (हि.स.)। सिलीगुड़ीविवेकानन्द-विद्यालयस्य हिरकजयन्ती-वर्ष-समारोहस्य आरम्भः बुधवासरे भव्यया रंगारङ्गया शोभायात्रया सह अभवत्। एषा शोभायात्रा विद्यालय-परिसरात् आरब्धा, अनन्तरं नगरस्य विभिन्नेषु प्रमुखमार्गेषु राजमार्गेषु च सञ्चरित्वा पुनः विद्यालय-परिसरे एव समापिता।
अस्यां शोभायात्रायां मेयर गौतम देव, उपमेयर रंजन सर्वकारः, विद्यालयस्य शिक्षकाः, वर्तमानाः पूर्वाः च छात्रछात्राः तथा अभिभावकाः बहुसंख्यया सहभागिनोऽभवन्।
शोभायात्रायां विविधाभिः प्रदर्शिनीभिः समाजस्य महत्त्वपूर्णाः विषयाः प्रदर्शिताः। तेषु सतीप्रथायाः विरोधे जागरूकता, बालविवाहस्य निषेधः, महिलाशिक्षायाः महत्त्वम् तथा योगस्य लाभाः इत्यादयः विषयाः दर्शिताः। एतदतिरिक्तं दशमी-बटालियनस्य वाद्यवृन्दः, जनजातीय-नृत्यम् तथा सामाजिकसन्देशयुक्ताः पोस्टराः अपि प्रमुखम् आकर्षणम् आसन्।
विद्यालयस्य प्रधानाचार्यः महितोष दास अवदत् यत् उच्चमाध्यमिक-परीक्षायाः कारणेन फरवरी-मासे अयं कार्यक्रमः आयोजयितुं न शक्यः अभवत्। अतः अस्मिन् वर्षे हिरकजयन्ती-समारोहस्य आरम्भः शोभायात्रया सह कृतः।
तेन उक्तं यत् अयं उत्सवः वर्षपर्यन्तं विविधैः सामाजिकैः शैक्षणिकैः कार्यक्रमैः सह निरन्तरं प्रवर्तिष्यते। प्रतिमासं भिन्नभिन्नाः कार्यक्रमाः आयोज्यन्ते, तथा आगामिवर्षस्य फरवरी-मासे द्विदिवसीय-विशेषकार्यक्रमेण अस्य समारोहस्य समापनं भविष्यति।
हिन्दुस्थान समाचार