मुख्यमंत्री–योगिना सह मिलितवान् नोबेलपुरस्कार-विजेता नोवोसेलोवः, लोहम-इत्यनया निर्माण्या सह प्रदेशे उन्नत–पदार्थ–अनुसन्धानं तथा अभियान्त्रिकी–केन्द्रं स्थापयितुं चर्चां कृतवान्
लखनऊनगरम्, ११ मार्चमासः (हि.स.)। भौतिकशास्त्र–विषये संयुक्त–नोबेल–पुरस्कार–विजेता कॉन्स्टेंटिन-नोवोसेलोवः बुधवासरे प्रातः मुख्यमंत्री–योगी-आदित्यनाथेन सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे उत्तरप्रदेशं राष्ट्रे उन्नत–पदार्थ–अनुसन्धानं तथा अभियान्त
नोबेल पुरस्कार विजेता कॉन्स्टेंटिन नोवोसेलोव ने  सीएम याेगी से की भेंट


लखनऊनगरम्, ११ मार्चमासः (हि.स.)। भौतिकशास्त्र–विषये संयुक्त–नोबेल–पुरस्कार–विजेता कॉन्स्टेंटिन-नोवोसेलोवः बुधवासरे प्रातः मुख्यमंत्री–योगी-आदित्यनाथेन सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे उत्तरप्रदेशं राष्ट्रे उन्नत–पदार्थ–अनुसन्धानं तथा अभियान्त्रिकी–केन्द्रं स्थापयितुं संभावनायाः विषये चर्चाः कृताः।

सहैव लोहम–निर्माणी प्रदेशे भारतस्य प्रथमं “रेयर–अर्थ्–टु–मैग्नेट”–इंटीग्रेटेड–फैसिलिटी स्थापयितुं योजनायाः विषये विस्तृतां चर्चां कृतवान्। अस्य स्थापनेन राष्ट्रे उच्च–प्रौद्योगिकी–आधारितं निर्माण–उद्योगं प्रवर्धिष्यते।

मुख्यमंत्री–योगी–आदित्यनाथेन नोबेल–विजेता–नोवोसेलोवः, लोहम–निर्माण्याः सीईओ–रजत–वर्मा तथा निर्माणी–चीफ–ऑफ–स्टाफ–आयुष–सबात इत्यनयोः उत्तरप्रदेशे हार्दिकं स्वागतं कृतम्। अतिथयः राज्ये निवेशाय अनुकूलं वातावरणं प्रशंसितवन्तः, तथा उन्नत–पदार्थ–अनुसन्धानं तथा अभियान्त्रिकी–केन्द्रं स्थापयितुं संभावनायाः विषये चर्चां कृतवन्तः।

उल्लेखनीयं यत् नोबेल–पुरस्कार–विजेता नोवोसेलोवः, यः ग्रैफीन–अन्वेषणाय विश्व–प्रसिद्धः, लोहम–निर्माण्या सह स्ट्रैटेजिक–एडवाइज़र तथा सहयोगी–रूपेण कार्यं करोति। तस्य लक्ष्यं उन्नत–पदार्थ–विज्ञानं औद्योगिक–स्तरे बैटरी–प्रौद्योगिकी तथा ऊर्जा–क्षेत्रे प्रयोगे स्थापनम् अस्ति।

लोहम–नोवोसेलोव–सहयोगस्य मुख्य–केन्द्रं द्वयोः क्षेत्रयोः अस्ति – प्रथमम् - टू–डी–पदार्थेषु (उदाहृत्य ग्रैफीन) उपयोगं कृत्वा लिथियम–आयन–बैटरी-इत्यस्य क्षमता, सुरक्षा दीर्घायुः च वृद्धिं कर्तुं तथा अपरं बैटरी-इत्यनया सह तथा परमानेंट–मैग्नेट्–उन्नत–पुनःचक्रण–प्रणालीं विकसित्य महत्वपूर्ण–खनिजानां संशोधनं कृत्वा पुनःप्राप्तिं सुनिश्चितकरणञ्चास्ति।एतेन सर्कुलर–अर्थव्यवस्थायाः दृढता भविष्यति। एषः सहयोगः भारतस्य “मेक–इन–इंडिया” तथा ग्रीन–एनर्जी–दृष्ट्याः कृते अपि महत्वपूर्णः मान्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता