Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, ११ मार्चमासः (हि.स.)। वर्तमानासु वैश्विक–परिस्थितिषु पश्चिम–एशिया–प्रदेशे प्रवर्तमानं संघर्षं दृष्ट्वा राज्ये वाति–आपूर्तेः स्थितेः निरन्तरं निरीक्षणं क्रियते। अस्य विषयस्य सम्बन्धे खाद्य–विभागेन तैल–निर्माणिभिः सह राज्य–स्तरे नियमित–समीक्षा अपि क्रियते। राज्ये गृह-वात्याः पर्याप्ता उपलब्धता अस्ति।
खाद्य–नागरिक–आपूर्ति–उपभोक्ता–कार्य–विभागस्य आयुक्तः अवदत् यत् वर्तमानकाले प्रदेशे गृह-वात्याः कस्यापि प्रकारस्य अभावः नास्ति। अतः उपभोक्तृभ्यः वाति–उपलब्धतां प्रति चिन्तां कर्तुं आवश्यकता नास्ति। तेन उक्तं यत् पश्चिम–एशिया–प्रदेशे प्रवर्तमानं संघर्षं दृष्ट्वा केन्द्र–सर्वकारेण आवश्यक–वस्तु–अधिनियमस्य अन्तर्गतं “प्राकृतिक–वाति–आपूर्ति–विनियमन–आदेशः, २०२६” प्रख्यापितः, यस्य अन्तर्गतं वाति–आपूर्ति–व्यवस्थायाः विशेष–निरीक्षणं क्रियते।
तेन उक्तं यत् केन्द्र–सर्वकारेण अपि स्पष्टं कृतं यत् एलपीजी, पीएनजी तथा सीएनजी–आपूर्तौ कस्यापि प्रकारस्य न्यूनता न कृता अस्ति। चिकित्सालयेषु शैक्षिक–संस्थासु च उपयुज्यमानायाः वाणिज्यिक–वात्याः आपूर्तिः अपि पूर्ववत् एव प्रवर्तते, तत्र कापि शिथिलता न कृता।
सर्वकारस्य निर्देशानां अनुपालनेन राज्य–शासनेन सर्वेभ्यः जनपदाधिकारिभ्यः तथा तैल–निर्माणीभ्यः निर्देशाः दत्ताः यत् ते एलपीजी, पीएनजी तथा सीएनजी–उपलब्धतायाः निरन्तरं समीक्षां कुर्वन्तु तथा प्राथमिक–क्षेत्रेषु समान–आपूर्तिं सुनिश्चितां कुर्वन्तु। तथा च राज्ये कुतश्चित् स्थले वाति–संग्रहणम् अथवा कालाबाजरी इति न भवेत् इति अपि सुनिश्चितं करणीयम्।
आयुक्तः अवदत् यत् यदि कस्मिन्नपि स्थले एलपीजी, पीएनजी अथवा सीएनजी–सम्बन्धे संग्रहणम् अथवा कृष्ण-विपणस्य सूचनायाः पुष्टिः भवति, तर्हि सम्बन्धित–व्यक्तेः विरुद्धं आवश्यक–वस्तु–अधिनियमस्य अन्तर्गतं कठोर–वैधानिकी–कार्यवाही करिष्यते।
सः सामान्य–जनतां प्रति आह्वानं कृतवान् यत् ते कस्यापि प्रकारस्य दुष्प्रचारं प्रति ध्यानं न यच्छन्तु तथा वाति–उपलब्धतां प्रति निश्चिन्ताः भवन्तु, यतः राज्ये वाति–आपूर्तिः पूर्णतया सामान्य–स्थितौ अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता