विष्णु देव सायो ममता बनर्जयेऽलिखत् पत्रं, राष्ट्रपतेः अपमानमाधृत्य प्रकटिता रुष्टता
रायपुरम्, 11 मार्चमासः(हि.स.)। छत्तीसगढ़-राज्यस्य मुख्यमंत्री विष्णुदेव-सायः पश्चिम-बङ्गाल-राज्यस्य मुख्यमंत्री ममता-बनर्जी इत्यस्यै पत्रं प्रेष्य राष्ट्रपतिः द्रौपदी-मुर्मु इत्यस्याः अपमान-प्रकरणे असन्तोषं प्रकटितवान्। मुख्यमन्त्री सायः स्वस्य पत
मुख्यमंत्री  विष्णु देव साय


मुख्यमंत्री साय द्वारा ममता काे लिखा गया पत्र


रायपुरम्, 11 मार्चमासः(हि.स.)। छत्तीसगढ़-राज्यस्य मुख्यमंत्री विष्णुदेव-सायः पश्चिम-बङ्गाल-राज्यस्य मुख्यमंत्री ममता-बनर्जी इत्यस्यै पत्रं प्रेष्य राष्ट्रपतिः द्रौपदी-मुर्मु इत्यस्याः अपमान-प्रकरणे असन्तोषं प्रकटितवान्।

मुख्यमन्त्री सायः स्वस्य पत्रे लिखितवान् यत् जनजातीय-समाजात् आगता देशस्य महिला-राष्ट्रपतिः प्रति कृतम् एतत् व्यवहारः केवलं कस्यचित् व्यक्तेः अपमानः न, अपि तु देशस्य सर्वोच्च-संवैधानिक-संस्थायाः, आदिवासी-समाजस्य तथा मातृशक्तेः अपमानः अस्ति।

सायः पत्रे अवदत् यत् भारतस्य लोकतान्त्रिक-परम्पराः तथा शिष्टाचाराः सम्पूर्णे विश्वे सम्मानिताः सन्ति। अस्माकं संस्कृतौ मतभेदः कदापि मनभेदः न भवति। किन्तु राष्ट्रपतिसदृशस्य सर्वोच्च-संवैधानिक-पदस्य प्रति न्यूनतम-शिष्टाचारस्य अपि पालनं न कृतम्, एतत् लोकतान्त्रिक-मूल्यानां विरुद्धम् अस्ति।

मुख्यमन्त्री अवदत् यत् अन्ताराष्ट्रिय-महिला-दिवसात् पूर्वमेव जनजातीय-समाजात् आगतायाः महिला-राष्ट्रपतेः प्रवास-समये कार्यक्रम-सम्बद्ध-व्यवस्थासु लापरवाही तथा तस्याः अपमानः अत्यन्तं निन्दनीयः दुर्भाग्यपूर्णश्च अस्ति। एषा घटना देशस्य कोटिशः आदिवासीनां, पिछड-वर्गीयानां, दलितानां तथा मातृशक्तेः भावनाः गभीरतया आहतवती इति अपि सः उक्तवान्।

सायः पत्रे अपि लिखितवान् यत् एषा प्रथमवारः अस्ति यदा कस्यचित् राज्य-सर्वकारस्य व्यवहार-सम्बन्धे स्वयं राष्ट्रपतिः स्वपीडां सार्वजनिकतया व्यक्तुं बाधिता अभवत्। एषा स्थिति भारतस्य लोकतान्त्रिक-इतिहासे अत्यन्तं चिन्ताजनका अस्ति तथा एतेन पश्चिम-बङ्गाल-राज्यस्य प्रतिष्ठित-प्रतिमायाः अपि हानिः अभवत्।

सायः स्वपत्रे सन्देशखाली-प्रदेशस्य घटनायाः अपि उल्लेखं कृतवान्, यत्र जनजातीय-समाजस्य महिलाभिः सह घटीताः घटनाः सम्पूर्णं देशं कम्पितवन्तः। सः अवदत् यत् वञ्चित-जनजातीय-समाजेन सह एतादृशः व्यवहारः कस्यापि परिस्थितौ ग्राह्यः न भवति।

मुख्यमन्त्री विष्णुदेव-सायः ममता-बनर्जी इत्यस्यै अनुरोधं कृतवान् यत् सा अस्मिन् विषये देशस्य समाजस्य च समीपे क्षमां याचेत्, स्वदोषं स्वीकुर्यात्, तथा भविष्ये लोकतान्त्रिक-संस्थानां संवैधानिक-पदानां च प्रति सम्मानं धारयितुं देशं आश्वासयेत्। सः अवदत् यत् भारतस्य लोकतान्त्रिक-व्यवस्थायां राष्ट्रपतिः देशस्य सर्वोच्च-संवैधानिक-संस्थायाः प्रतीकः अस्ति, तस्य सम्मानात् एव लोकतन्त्रस्य गरिमा सम्बद्धा अस्ति।

सः अवदत् यत् कस्यापि राजनैतिक-मतभेदात् उपरि उत्थाय संवैधानिक-पदानां सम्मानः कर्तव्यः। मुख्यमन्त्री सायः स्पष्टतया अवदत् यत् जनजातीय-समाजात् आगतायाः राष्ट्रपतेः सम्मान-सम्बद्धः एषः विषयः सम्पूर्ण-देशस्य अस्मिता तथा स्वाभिमानस्य सह सम्बद्धः अस्ति। अतः देशस्य समाजस्य च भावनानां सम्मानं कृत्वा अस्मिन् प्रकरणे उत्तरदायित्वपूर्वकं निर्णयः कर्तव्यः।

उल्लेखनीयम् यत् राष्ट्रपतेः द्रौपदी-मुर्मोः पश्चिम-बङ्गाल-दौरे प्रोटोकॉल-अनुसारं मुख्यमंत्री वा कश्चन मन्त्री कार्यक्रमे उपस्थितः न आसीत्, तथा कार्यक्रम-स्थलम् अपि लघु आसीत्, यस्य विषये राष्ट्रपतिः असन्तोषं प्रकटितवती।---------------

हिन्दुस्थान समाचार