Enter your Email Address to subscribe to our newsletters


खड़गपुरम्, 11 मार्चमासः (हि. स.)।
भारतीय-प्रौद्योगिकी-संस्थानं (आईआईटी) खड़गपुरम् ‘अकादमिक-एवं-अनुसन्धान-सहकार्य-प्रोत्साहन-योजना (एसपीएआरसी)’ इत्यस्य राष्ट्रिय-समन्वयकत्वेन बुधवासरे द्विदिवसीयं एसपीएआरसी-राष्ट्रिय-सम्मेलनम् आयोजितवान्। एतत् सम्मेलनं भारत-सरकारस्य शिक्षा-मन्त्रालयस्य अधीनत्वे आयोजितम् आसीत्। सम्मेलनं कोलकाता-नगरस्य राजारहाट क्षेत्रे स्थिते आईआईटी-खड़गपुर-रिसर्च-पार्के आयोजितम्, यस्य उद्देश्यः वैश्विक-शैक्षणिक-अनुसन्धान-सहकार्यस्य अधिकं सुदृढीकरणम् आसीत्।
एसपीएआरसी-कार्यक्रमेन सम्बद्धाः भारतीय-प्रधान-अन्वेषकाः , अन्ताराष्ट्रिय-सहयोगिनः तथा विविध-संस्थानानां प्रतिनिधयः एकस्मिन् समान-मञ्चे समागताः, यत्र परियोजनानां प्रगतिः समीक्षिता तथा अनुभव-विनिमयः कृतः।
कार्यक्रमे देशस्य विभिन्न-विश्वविद्यालयेभ्यः तथा अनुसन्धान-संस्थानाभ्यः प्रायः चत्वारिशत् संकाय-सदस्याः, शोधकर्तारः तथा छात्राः सहभागित्वं कृतवन्तः। सम्मेलनस्य उद्घाटनं शिक्षा-मन्त्रालयस्य संयुक्त-सचिवः एमस्ट्रांग-पामे कृतवान्। अस्मिन् अवसरे आईआईटी-खड़गपुरस्य निदेशकः प्रोफेसरः सुमन-चक्रवर्ती तथा एसपीएआरसी-राष्ट्रीय-समन्वयकः प्रो रबीब्रत-मुखर्जी अपि उपस्थितौ आस्ताम्।
उद्घाटन-सत्रे फ्रान्स-देशस्य प्रतिष्ठितः शिक्षाविद् डेविड-क्यूर मुख्य-अतिथिरूपेण सहभागी अभवत्, यः ईएसपीसीआई-पेरिस तथा इकोले-पॉलीटेक्निक संस्थाभ्यां सम्बद्धः अस्ति। वक्तारः स्वीयेषु सम्बोधनेषु उच्च-गुणवत्तायुक्त-अनुसन्धानस्य प्रोत्साहनाय तथा नवोन्मेष-विकासाय सतत-अन्तरराष्ट्रीय-सहकार्यस्य आवश्यकता विशेषतया उद्घोषितवन्तः।
सम्मेलन-कालस्य अन्तर्गतं विविधाः पैनल-चर्चाः, प्रस्तुतयः तथा संवादात्मक-सत्राणि आयोजितानि, यत्र भारतीयाः तथा अन्ताराष्ट्रिय-सहयोगिनः एसपीएआरसी-समर्थित-परियोजनानां कार्यान्वयन, प्रगति तथा उपलब्धीनां विषये स्वानुभवान् अविनिमयन्।
कार्यक्रमस्य समन्वयने एसपीएआरसी-संयुक्त-राष्ट्रिय-समन्वयिका प्रो सुदेशना-सरकारस्य महत्वपूर्णा भूमिका आसीत्।
एतत् सम्मेलनं भारतस्य वर्धमानां वैश्विक-अनुसन्धान-उपस्थितिं प्रकाशयति तथा युवा-शोधकर्तृणां नवोन्मेषकानां च कृते नूतन-अवसरान् उद्घाटयति।
एसपीएआरसी-राष्ट्रिय-सम्मेलनम् 2026 अन्तरराष्ट्रीय-शैक्षणिक-सहकार्यस्य संवर्धनाय तथा भारतं सुदृढं वैश्विक-अनुसन्धान-पारिस्थितिकी-तन्त्रं स्थापयितुं दिशि एकं महत्वपूर्णं प्रयासं मन्यते।-----------------
हिन्दुस्थान समाचार