राष्ट्रपतेः प्रस्तावितभ्रमणात् पूर्वम् अयोध्यां प्राप्नोत् मुख्यमंत्री योगी
-मुख्यमंत्री प्राप्नोत् हनुमानगढ़ीम्, अकरोत् दर्शनं पूजनं च -श्रीराम जन्मभूमौ दर्शनोत्तरं मुख्यमंत्री अधिकारिभिः सह करिष्यते समीक्षोपवेशनम् अयोध्या, 12 मार्चमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अयोध्यानगरं प्राप्तवान् तथा हनुम
मुख्यमंत्री योगी


मुख्यमंत्री हनुमानगढ़ी


-मुख्यमंत्री प्राप्नोत् हनुमानगढ़ीम्, अकरोत् दर्शनं पूजनं च

-श्रीराम जन्मभूमौ दर्शनोत्तरं मुख्यमंत्री अधिकारिभिः सह करिष्यते समीक्षोपवेशनम्

अयोध्या, 12 मार्चमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे अयोध्यानगरं प्राप्तवान् तथा हनुमानगढ़ीमन्दिरे हनुमन्तललस्य दर्शनपूजनं कृतवान्। राष्ट्रपतेः प्रस्तावितकार्यक्रमं दृष्ट्वा मुख्यमन्त्री अद्य व्यवस्थायाः स्थलीयनिरीक्षणं करिष्यति तथा अधिकारिभिः सह समीक्षासभां अपि करिष्यति।

श्रीरामजन्मभूमौ करिष्यति दर्शनपूजनम्मुख्यमन्त्री श्रीरामजन्मभूमिमन्दिरे अपि भगवान् श्रीरामस्य दर्शनं कृत्वा प्रदेशस्य सुखसमृद्ध्यर्थं प्रार्थनां करिष्यति।

राष्ट्रपतेः कार्यक्रमस्थलस्य करिष्यति निरीक्षणम्दर्शनपूजनानन्तरं मुख्यमन्त्री १९ मार्चे प्रस्तावितस्य राष्ट्रपतेः कार्यक्रमस्थलस्य निरीक्षणं करिष्यति। अस्मिन् समये सः तत्रस्थितानां व्यवस्थाः, सुरक्षा, यातायातव्यवस्था तथा अन्याः आवश्यकतयारूपिताः सज्जाः इत्येतासां परीक्षणं करिष्यति।

अधिकारिभिः सह भविष्यति समीक्षासभाततः अनन्तरं मुख्यमन्त्री श्रीरामजन्मभूमिपरिसरे स्थिते पी.एफ.सी. सभागारे अधिकारिभिः सह समीक्षासभां करिष्यति। अस्मिन् सभायां राष्ट्रपतेः अयोध्यागमनस्य सन्दर्भे सुरक्षा व्यवस्था, यातायातप्रबन्धनम्, स्वच्छता, वाहननिवेशनव्यवस्था , प्रोटोकॉलव्यवस्था तथा अन्याः व्यवस्थाः विस्तरेण समीक्ष्यन्ते।

निरीक्षणसमीक्षासभयोः अनन्तरं मुख्यमन्त्री अपराह्णे प्रायः द्वादशवादने अयोध्यातः लखनऊनगरं प्रति प्रस्थितः भविष्यति।

हिन्दुस्थान समाचार