Enter your Email Address to subscribe to our newsletters





मुख्यमंत्री हनुमानगढ़्यां सद्भिः सह मिलित्वा अपृच्छत् कुशलक्षेमम्
अयोध्या, 12 मार्चमासः (हि.स.)।
गोरक्षपीठाधीश्वरः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे एकदिवसीयदौरेण अयोध्यां प्राप्तवान् तथा रामललायाः दर्शनं कृतवान्। मुख्यमन्त्री श्रीराममन्दिरपरिसरे निर्माणकार्याणां प्रगतिविषये अपि जानकारीं प्राप्तवान्।
अयोध्यां प्राप्तः मुख्यमन्त्री योगी आदित्यनाथः प्रथमं संकटमोचनहनुमानगढ़ीमन्दिरे दर्शनपूजनं कृत्वा प्रदेशस्य सुखशान्त्यर्थं प्रार्थनाम् अकरोत्। तत्र सः सन्तैः अपि मिलित्वा तेषां कुशलक्षेमं अपृच्छत्। मुख्यमन्त्री सर्वप्रथमं महन्तप्रेमदासमहाराजेन सह मिलितवान्। ततः परं सः अन्यैः सन्तैः अपि मिलित्वा तेषां हालचालं ज्ञातवान्।
ततः निर्गत्य मुख्यमन्त्री श्रीराममन्दिरं गतवान्। तत्र सः श्रीरामललायाः दर्शनं कृत्वा आरतीम् उतार्य मन्दिरस्य परिक्रमा अपि अकरोत्।
अनन्तरं मुख्यमन्त्री योगी श्रीराममन्दिरपरिसरे चलमानानां निर्माणकार्याणां प्रगतिविषये अपि जानकारीं प्राप्तवान्। श्रीराममन्दिरट्रस्टस्य पदाधिकारीणः मुख्यमन्त्रिणं निर्माणकार्यस्य वर्तमानस्थित्या सह आगामीयोजनाभिः अपि अवगतवन्तः।
अस्मात् पूर्वं मुख्यमन्त्री योगी आदित्यनाथस्य अयोध्यागमनसमये रामकथापार्कहेलिपैडस्थले जनप्रतिनिधिभिः अधिकारिभिश्च तस्य स्वागतं कृतम्। अस्मिन् अवसरः सूर्यप्रतापशाही, गिरीशपतित्रिपाठी, वेदप्रकाशगुप्त, रामचन्द्रयादव, चन्द्रभानुपासवान्, अमितसिंहचौहान तथा चम्पतराय इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार