Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मार्चमासः (हि.स.)।
पश्चिमबङ्गाले केरलराज्ये च विधानसभानिर्वाचनानां सन्दर्भे अद्य सायं प्रधानमन्त्रिणः नरेन्द्रमोदिनः सर्वकारीनिवासे भारतीयजनतापक्षस्य केन्द्रीयनिर्वाचनसमितेः गोष्ठी भविष्यति।
पक्षस्य सूत्राणि अवदन् यत् अस्यां बैठके पश्चिमबङ्गाले केरलराज्ये च विधानसभानिर्वाचनार्थं सम्भावितानां अभ्यर्थिनां नाम्नां विषये चर्चा भविष्यति।
अस्यां गोष्ठ्यां प्रधानमन्त्री नरेन्द्रमोदी, भाजपाध्यक्षः नितिननवीनः, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः, स्वास्थ्य मन्त्री जेपीनड्डा तथा महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्रफडणवीसः समितेः सदस्यत्वेन सहभागं करिष्यन्ति।
अस्यां गोष्ठ्यां निर्वाचनरणनीतिविषये तथा अभ्यर्थिनां चयनविषये अन्तिमा चर्चा भवितुम् सम्भावना अस्ति।
-----------
हिन्दुस्थान समाचार