Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १२ मार्चमासः (हि.स.)। छत्तीसगढराज्यस्य विद्युत्–उपभोक्तृणां कृते मुख्यमन्त्री विष्णुदेव–सायः अद्य गुरुवासरे एकस्याः नूतनस्य आकर्षक–योजनायाः शुभारम्भं करिष्यति। छत्तीसगढ–स्टेट–पावर–डिस्ट्रीब्यूशन–कम्पनी निम्न–दाब–गृह–श्रेणी–उपभोक्तृभ्यः, एकल–बत्ती–संयोजन–धारिभ्यः तथा कृषि–श्रेणी–उपभोक्तृभ्यः एतां योजनां प्रवर्तयति।मुख्यमन्त्रिणः विष्णुदेव–सायस्य अनुसारं प्रदेशस्य निम्न–मध्यम–आय–वर्गस्य तथा कृषि–उपभोक्तृणां कृते विशेष–शिथिलतां प्रदातुं पावर–डिस्ट्रीब्यूशन–निर्माण्या “मुख्यमन्त्री–विद्युत्–देयक–भुगतान–समाधान–योजना–२०२६” इति योजना आरब्धा। मुख्यमन्त्री सायः अद्य जवाहरलाल–नेहरू–स्मृति–चिकित्सा–महाविद्यालय–परिसरे स्थिते अटल–बिहारी–वाजपेयी–सभागारे अस्याः योजनायाः शुभारम्भं करिष्यति।
छत्तीसगढ–स्टेट–पावर–डिस्ट्रीब्यूशन–निर्माण्याः प्रबन्ध–निदेशकः भीम–सिंह-कंवरः अवदत् यत् अस्यां योजनायां त्रयः उपभोक्ता–वर्गाः लाभं प्राप्स्यन्ति। तत्र प्रथमः वर्गः ३१ मार्चमासे २०२३ तमे निष्क्रिय–उपभोक्तृणां कृते समाधान–योजना, द्वितीयः सक्रिय–एकल–बत्ती–संयोजन–धारि–उपभोक्तृणां कृते समाधान–योजना, तृतीयः सक्रिय–अशासकीय–गृह–उपभोक्तृणां तथा अशासकीय–कृषि–उपभोक्तृणां कृते योजना इति।
अस्यां योजनायां मुख्यतया एतेषु वर्गेषु अन्तर्भूतानां उपभोक्तृणां विद्युत्–देयक–प्रदानाय प्रोत्साहनरूपेण अधिभार–राशौ शत–प्रतिशत–शिथिलता तथा मूल–राशौ अपि ७५ प्रतिशतपर्यन्तं शिथिलता प्रदास्यते। योजनायाः लाभं प्राप्तुं एतेषां वर्गाणां उपभोक्तृभिः स्वपञ्जीकरणं कर्तव्यम्।
शिथिलतायाः अनन्तरं शेष–राशेः पर्यायानुगुणं प्रदानं कुर्वतां उपभोक्तृणां कृते अग्रिम–मासे कश्चन अधिभारः अपि न भविष्यति। पञ्जीकरणाय अवशिष्ट–राशेः न्यूनतमं दश–प्रतिशत–प्रदानं अनिवार्यम्। एषा योजना ३० जूनमास २०२६ पर्यन्तं प्रभावशीला भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani