Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, १२ मार्चमासः (हि.स.)। ओडिशा–राज्यस्य मुख्यमन्त्री मोहन–माझी पश्चिम–बङ्गाल–राज्यस्य मुख्यमन्त्रिणी ममता–बनर्जी इत्यस्यै पत्रं लिखित्वा राष्ट्रपति-द्रौपदी–मुर्मु–इत्यस्याः सम्प्रति पश्चिम–बङ्गाल–प्रवासे कथित–अनादर–व्यवहारस्य विषये गम्भीरां चिन्तां व्यक्तवान्। राष्ट्रपति-मुर्मु अद्यतनकाले सिलिगुडी–नगरे आयोजिते अन्ताराष्ट्रिय–सन्थाल–सम्मेलने सहभागं कर्तुं गता आसीत्।
स्व–पत्रे माझी उक्तवान् यत् भारतस्य लोकतान्त्रिक–परम्परा परस्पर–सम्मान–गरिमायाः च आधारेण स्थापिता अस्ति, यत्र राजनैतिक–मतभेदाः कदापि व्यक्तिगतानां वा संवैधानिक–पदानां सम्मानं न प्रभावितुम् अर्हन्ति। सः अवदत् यत् कार्यक्रमस्य व्यवस्थासु अन्तिम–क्षणे कृतानि परिवर्तनानि, विशेषतः आदिवासी–समुदाय–सम्बद्धस्य कार्यक्रमस्य स्थान–परिवर्तनम्, दुर्भाग्यपूर्णम् अस्ति तथा संविधानस्य भावनायाः अनुरूपं नास्ति।
सः अपि अवदत् यत् एषा घटना अन्ताराष्ट्रिय–महिला–दिवसात् पूर्वमेव अभवत्, येन अस्याः घटनायाः गाम्भीर्यम् अधिकं वर्धते, विशेषतः यतः राष्ट्रपतिः मुर्मु–देवी स्वयम् सन्थाल–समुदायात् आगता एकाऽभिमानिनी आदिवासी–महिला अस्ति।
ओडिशा–राज्यस्य मुख्यमन्त्री उक्तवान् यत् अस्मिन् सम्पूर्ण–घटनाक्रमे देशव्यापि आदिवासी–पृष्ठ–वर्ग–दलित–समुदायानां भावनाः आहताः अभवन्। सन्थाल–समुदायेन सह स्वस्य सम्बन्धं उल्लेखयन् सः अस्मिन् विषये व्यक्तिगतां पीडामपि व्यक्तवान् तथा अवदत् यत् एषः समुदायः देशस्य विकासे महत्त्वपूर्णं योगदानं निरन्तरं दत्तवान्।
माझी अपि अवदत् यत् पश्चिम–बङ्गाल–राज्यं स्वस्य समृद्ध–सांस्कृतिक–परम्परया, सभ्यतया तथा लोकतान्त्रिक–संस्थाः प्रति सम्मानस्य कारणेन प्रसिद्धम् अस्ति, अतः एतादृशेषु विषयेषु उच्च–मानदण्डानां पालनम् अपेक्षितम्। तेन पत्रे लिखितम् यत् अस्याः घटनायाः कारणेन न केवलं लक्षशः जनानां भावनाः आहताः, अपि तु पश्चिम–बङ्गाल–राज्यस्य चित्रे अपि “अनावश्यक–छाया” पतिता।
अन्ते सः ममता–बनर्जी इत्यस्यै आग्रहं कृतवान् यत् अस्मिन् विषये पुनर्विचारं कृत्वा राष्ट्रपतिं तथा देशस्य जनतां प्रति दुःखप्रकाशं कुर्यात्। तस्य मतानुसारम् एतादृशः पगः लोकतान्त्रिक–मूल्यानां संवैधानिक–पदानां गरिमाः च प्रति प्रतिबद्धतां दृढां करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani