पश्चिम–एशिया–युद्धजनित–वाति(गैस)–संकटस्य विषये संसद–परिसरे विपक्षस्य प्रदर्शनम्
नवदिल्ली, १२ मार्चमासः (हि.स.)। पश्चिम–एशिया–प्रदेशे अमेरिका–इज़रायल–ईरान–देशानां मध्ये प्रवर्तमानेन युद्धेन उत्पन्नस्य वाति–संकटस्य विषये विपक्षेण गुरुवासरे संसद–भवन–परिसरे प्रदर्शनं कृतम्। अस्मिन् विरोध–प्रदर्शने कांग्रेस–अध्यक्षः मल्लिकार्जुन–ख
संसद भवन परिसर में गैस संकट को लेकर सिलेंडर के कटआउट और पोस्टर लेकर सरकार के खिलाफ नारेबाज़ी करते विपक्षी सांसदों के साथ बैठे कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे, प्रियंका गांधी और नेता प्रतिपक्ष राहुल गांधी


संसद भवन परिसर में गैस संकट को लेकर सिलेंडर के कटआउट और पोस्टर लेकर सरकार के खिलाफ नारेबाज़ी करते विपक्षी सांसदों के साथ बैठे कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे, प्रियंका गांधी और नेता प्रतिपक्ष राहुल गांधी


संसद भवन परिसर स्थित मकर द्वार पर गैस संकट को लेकर विरोध प्रदर्शन करते विपक्ष के निष्कासित सांसदों के साथ बैठे लोकसभा में नेता प्रतिपक्ष राहुल गांधी।


नवदिल्ली, १२ मार्चमासः (हि.स.)। पश्चिम–एशिया–प्रदेशे अमेरिका–इज़रायल–ईरान–देशानां मध्ये प्रवर्तमानेन युद्धेन उत्पन्नस्य वाति–संकटस्य विषये विपक्षेण गुरुवासरे संसद–भवन–परिसरे प्रदर्शनं कृतम्।

अस्मिन् विरोध–प्रदर्शने कांग्रेस–अध्यक्षः मल्लिकार्जुन–खडगे, महासचिवः के.सी.वेणुगोपालः, कांग्रेस–नेत्री प्रियंका–गान्धी, राजीव–शुक्लः, समाजवादी–पक्ष–नेता राम–गोपाल–यादवः, धर्मेन्द्र–यादवः इत्यादिभिः सह द्विशताधिकाः सांसदाः सम्मिलिताः आसन्।

विपक्ष–सांसदाः हस्तेषु विशाल–विज्ञापनानि अनिलकोषस्य प्रतिरूपाणि च धारयन्तः सर्वकारस्य विरुद्धं उद्घोषाः घोषयन्तः आसन्। विज्ञापनपत्रेषु अनिलकोषस्य चित्राणि आसन्, तेषु वाति–संकटसम्बद्धाः विविधाः याचनाः लिखिताः आसन्। प्रदर्शनकारिणः अवदन् यत् युद्धकारणात् वाति–वितरणं प्रभावितं जातम्, येन सामान्य–जनाः महान्तं क्लेशं अनुभवन्ति।

कांग्रेस–महासचिवः के.सी.वेणुगोपालः अस्य प्रदर्शनस्य विषये सामाजिक–माध्यमे ‘एक्स’ इत्यत्र लिखितवान् यत् समग्रे भारतदेशे एल.पी.जी.–अभावकारणात् दीर्घाः पङ्क्तयः दृश्यन्ते। कोटिशः नागरिकाः खाद्य–सुरक्षा–संकटं समुपस्थितम् अनुभवन्ति, लघु–भोजनालयाः अपि निरुद्धाः भवन्ति तथा जनानां मध्ये व्यापकः भयः अपि प्रसृतः अस्ति। तेन उक्तं यत् प्रधानमन्त्री पूर्णतया असहायः इव दृश्यते तथा तस्य सर्वकारः अस्य संकटस्य समाधानार्थं असफलः जातः। विपक्ष–सांसदैः संसद–परिसरे प्रदर्शनं कृत्वा सर्वकारस्य अक्षमतां प्रकाश्य त्वरित–समाधानस्य याचनाः कृताः।

अन्यत्र, संसदस्य वित्तविवरण–सत्रे समग्र–सत्रकालाय निष्कासिताः विपक्षस्य अष्ट सांसदाः अपि संसद–भवन–परिसरस्थिते मकर–द्वारे वाति–संकटस्य विषये विरोध–प्रदर्शनं कृतवन्तः। अस्मिन् प्रदर्शने लोकसभायाः विपक्ष–नेता राहुल–गान्धी अपि सम्मिलितः आसीत्। सांसदाः मकर–द्वारस्य सोपानेषु उपविश्य विज्ञापनानि धारयन्तः आसन्। एतेषु विज्ञापनेषु अनिलकोषस्य चित्राणि आसन् तथा “देशाय अनिलकोशः आवश्यकः” इत्यादयः उद्घोषाः लिखिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani