Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे असमराज्यस्य गुवाहाटीनगरे आयोजिते कार्यक्रमे प्रधानमन्त्री किसानसम्माननिधि योजनायाः द्वाविंशतितमीं किस्तं विमोचयिष्यति। अस्याः योजनायाः अन्तर्गतं देशस्य ९.३२ कोटि कृषकाणां खातेषु डायरेक्ट बेनिफिट ट्रान्सफर पद्धत्याः माध्यमेन १८,६४० कोटि रुप्यकाणां राशिः हस्तान्तरितो भविष्यति।
केन्द्रीयकृषि एवं किसानकल्याणमन्त्री शिवराजसिंहचौहानो गुरुवासरे अत्र स्वनिवासे पत्रकारेभ्यः एतां सूचनाम् अददात्। तेन उक्तं यत् प्रधानमन्त्री किसानसम्माननिधि योजनायाः अन्तर्गतं अद्यावधि ४.०९ लक्षकोटि रुप्यकाधिकाः राशि कृषकेभ्यः डीबीटी माध्यमेन प्रदत्ता अस्ति। अस्याः योजनायाः द्वारा २.१५ कोट्यधिकाः महिला कृषकाः अपि लाभान्विताः भवन्ति।
तेन उक्तं यत् विविधैः अध्ययनैः ज्ञातं यत् अस्याः प्रत्यक्षवित्तीयसहायतायाः कारणेन कृषकाणां कृषिनिवेशः वर्धितः तथा साहूकारेषु तेषां निर्भरता न्यूनाभूता, येन ग्रामीणार्थव्यवस्था अपि सुदृढा अभवत्। चौहानः अवदत् यत् सरकारस्य कृषिविकासस्य तथा कृषककल्याणस्य अयं महायज्ञः निरन्तरं प्रवर्तिष्यते।
कृषिक्षेत्रे गतदशकस्य उपलब्धीनां उल्लेखं कुर्वन् केन्द्रीयमन्त्री अवदत् यत् भारतदेशः अधुना खाद्यान्नाभावयुक्तदेशात् वैश्विकशक्तिरूपेण उदितः। तेन उक्तं यत् १५० मिलियन टन चावलोत्पादनेन भारतदेशः अस्मिन् क्षेत्रे चीनदेशम् अतिक्रम्य विश्वे प्रथमस्थानं प्राप्तवान्।
तेन उक्तं यत् वर्षे २०१४ तमे देशस्य कुलखाद्यान्नोत्पादनं २५२ मिलियन टन आसीत्, यत् अधुना वर्धमानं ३५७ मिलियन टन अभवत्। बागवानीक्षेत्रे अपि उल्लेखनीया वृद्धि अभवत्। फलशाकयोः उत्पादनं २७७ मिलियन टनतः वर्धमानं ३६९ मिलियन टन अभवत्।
शिवराजसिंहचौहानः अवदत् यत् भारतदेशः दालोत्पादने आत्मनिर्भरत्वस्य दिशि अग्रे गच्छति तथा अधुना देशः दालानां विश्वे महान् उत्पादकः उपभोक्ता च अभवत्। सरकारेण तूर अरहर मसूर उडद इत्यादीनां दालानां अभिलेखपरिमाणेन क्रयः क्रियते।
तेन उक्तं यत् कृषकाणां साहाय्यार्थं “भारतविस्तार” इति एआई आधारितं डिजिटलमञ्चस्य प्रथमचरणस्य आरम्भः कृतः। अस्य माध्यमेन कृषकाः केवलं एकेन दूरभाषकालेन स्वस्य स्थानीयभाषायां कृषिसम्बद्धां सर्वां जानकारीं प्राप्तुं शक्नुवन्ति।
केन्द्रीयमन्त्री अवदत् यत् कृषकाणां आर्थिकसुरक्षार्थं अपि अनेकानि महत्त्वपूर्णानि पादानि गृहीतानि। वर्षे २०१४ तमे कृषिऋणराशिः ८.४५ लक्षकोटि रुप्यकाणि आसीत्, या अधुना वर्धमानं २८.६९ लक्षकोटि रुप्यकाणि अभवत्। फसलबीमायोजनायाः अन्तर्गतं प्रायः द्विलक्षकोटि रुप्यकाणां दावाराशिः कृषकाणां कोषेषु प्रदत्ता अस्ति।
तेन उक्तं यत् कृषिराजस्वे अपि महती वृद्धिः अभवत्। यत्र यूपीए सरकारस्य काले कृषिबजटः प्रायः २७,००० कोटि रुप्यकाणि आसीत्, तत्र अधुना सः प्रतिवर्षं १.४० लक्षकोटि रुप्यकाधिकः अभवत्।
------------
हिन्दुस्थान समाचार