राहुल गांधी अवदत्- ईरानात्समस्या परिष्करिष्यते तदैव अनिलसंकटः समापयितुं शक्ष्यति
नवदिल्ली, 12 मार्चमासः (हि.स.)।लोकसभायां प्रतिपक्षनेता राहुलगान्धी गुरुवासरे पश्चिमएशियायां प्रवर्तमानात् युद्धात् उत्पन्नस्य गैससिलिण्डरसंकटस्य विषये अवदत् यत् यदि ईरानदेशस्य स्तर एव समस्या समाधानं प्राप्नोति तथापि एषः संकटः समाप्तः न भविष्यति। यत
राहुल गांधी


नवदिल्ली, 12 मार्चमासः (हि.स.)।लोकसभायां प्रतिपक्षनेता राहुलगान्धी गुरुवासरे पश्चिमएशियायां प्रवर्तमानात् युद्धात् उत्पन्नस्य गैससिलिण्डरसंकटस्य विषये अवदत् यत् यदि ईरानदेशस्य स्तर एव समस्या समाधानं प्राप्नोति तथापि एषः संकटः समाप्तः न भविष्यति। यतः विश्वं परिवर्तते तथा तस्य संरचना अपि परिवर्तते। अतः अस्माभिः स्वस्य मनोभावः परिवर्तनीयः। यदि भारतं केन्द्रे स्थाप्य कार्यं न क्रियते तर्हि समस्या अधिका गम्भीरा भविष्यति।

राहुलगान्धी संसदभवनपरिसरे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् देशे एलपीजी तथा तेलसंकटस्य आरम्भः एव अस्ति। तेन सदने वक्तुं इच्छा व्यक्ता, किन्तु नवप्रक्रियायाः कारणेन तस्मै अवसरः न प्राप्तः। तेन उक्तं यत् अधुना मन्त्री पूर्वमेव निर्णयं करिष्यन्ति, ततः सः वदिष्यति, अनन्तरं मन्त्री उत्तरं दास्यति। मुख्यः विषयः एषः अस्ति यत् गैस पेट्रोल तथा सर्वे इन्धनस्रोताः समस्या रूपेण परिवर्तिष्यन्ते, यतः अस्माकं ऊर्जासुरक्षा क्षीणा अभवत्।

तेन उक्तं यत् अद्यैव सज्जाः करणीयाः, यतः अस्माकं समीपे किञ्चित् कालः अस्ति। प्रधानमन्त्रिणा तथा सर्वकारेण शीघ्रमेव अस्मात् संकटात् निर्गमनस्य योजना आरभणीया। यदि तैयारी न क्रियते तर्हि कोटिशः जनाः हानिं प्राप्स्यन्ति। एषः विषयः केवलं ईरानदेशात् इन्धनप्राप्तिः वा अप्राप्तिः इति नास्ति, अपि तु वयं अस्थिरकालस्य प्रवेशद्वारे स्थिताः स्मः। अस्मिन् समये पुरातनचिन्तनं न कार्यं करिष्यति, अतः नूतना चिन्ता स्वीकरणीया।

तेन उक्तं यत् सः किमपि राजनैतिकं वक्तव्यं न ददाति, किन्तु एकां महान् समस्यां पश्यति। प्रधानमन्त्रिणा एतत् सुनिश्चितं कर्तव्यं यत् भारतस्य जनाः सुरक्षिताः स्युः तथा ऊर्जासुरक्षा अपि सुरक्षिताभवेत्।

राहुलगान्धी अपि अवदत् यत् प्रधानमन्त्री वदन्ति यत् भयस्य आवश्यकता नास्ति, किन्तु ते स्वयम् एव भीताः सन्ति। अस्य कारणेन ते सदने उपस्थितुं न शक्नुवन्ति। प्रधानमन्त्री देशस्य जनान् वदन्ति यत् भयस्य आवश्यकता नास्ति, किन्तु ते स्वयम् अन्यैः कारणैः भीताः सन्ति।

-------------

हिन्दुस्थान समाचार