Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 मार्चमासः (हि.स.)।
दिनेश शर्मा नामकः राज्यसभा-सांसदः मातापितृ-वियोगं प्राप्तानां सरकारी-निजी-क्षेत्रयोः सनातन-परम्परानुगामिनां कर्मचारिणां कृते त्रयोदश-दिनात्मकस्य अनिवार्य-सवैतनिक-शोक-अवकाशस्य व्यवस्था कर्तुं आग्रहं कृतवान्। गुरुवासरे राज्यसभायाः शून्यकाले डॉ. दिनेश-शर्मा उक्तवान् यत् सनातन-परम्परायाः संरक्षणार्थम् एतादृशः निर्णयः अत्यावश्यकः अस्ति।
तेन उक्तं यत् एषः अवकाशः आकस्मिक-अवकाशात् तथा अर्जित-अवकाशात् पृथक् स्थापनीयः, येन कश्चन भारतीयः स्वजीविकाया धर्मपालनस्य च मध्ये कस्यचित् एकस्य चयनं कर्तुं विवशः न भवेत्। अस्य अवकाशस्य व्यवस्था न भवति इति कारणेन एव सनातन-परम्परानुगामिनः कर्मचारीणः त्रयोदश-दिनात्मकां अन्त्येष्टि-क्रियां केवलं द्वि-त्रिदिनेषु एव सम्पन्नां कर्तुं बाध्यन्ते।
तेन उक्तं यत् विश्वस्य अनेकासु विकसित-देशेषु, यथा कनाडा, यूनाइटेड किंगडम, फ्रांस च, पारिवारिक-सदस्य-वियोगस्य स्थितौ सवैतनिक-शोक-अवकाशस्य व्यवस्था अस्ति। कनाडा-देशे अस्य अवधि दश-दिनानि अस्ति, यूनाइटेड-किंगडम-देशे तु प्रायः द्विसप्ताह-पर्यन्तम् अस्ति।
डॉ. शर्मा अवदत् यत् शास्त्रेषु मातापितृ-सेवा तथा तयोः मृत्युोत्तरं कर्तव्यपालनं पितृ-ऋणात् मुक्तेः एकमेव मार्गः इति निर्दिष्टम्। भारतस्य समाजः धर्मनिष्ठः समाजः अस्ति। गरुड पुराण अनुसारं प्रारम्भिकेषु दश-दिनेषु प्रेतत्व-अवस्था भवति, ततः त्रयोदशे दिने तथा शुद्धि-हवनानन्तरम् एव परिवारः समाजे पुनरागमनाय योग्यः भवति। अथर्ववेद अनुसारं पुत्रेण मातापितृणाम् अन्त्येष्टि-संस्कारः कर्तव्यः अनिवार्यः इति निर्दिष्टम्।
हार्वर्ड विश्वविद्यालय संस्थायाः प्रतिवेदनस्य उल्लेखं कृत्वा तेन उक्तं यत् शोकावस्थायां स्थितस्य कर्मचारिणः उत्पादकता अर्धमात्रा एव भवति। अद्यतन-प्रतिस्पर्धी-डिजिटल-युगे अपि बालकाः स्वमातापितृणां अन्त्येष्टि-क्रियां केवलं द्वि-त्रिदिनेषु एव सम्पन्नां कर्तुं बाध्यन्ते। एषा स्थिति धार्मिक-दृष्ट्या विनाशकारिणी तथा मानसिक-स्वास्थ्यस्य कृते घातका अस्ति। कर्मचारीणः अन्तःकरणे ग्लानि-अपराधबोधं वहन्तः एव कार्यस्थलं प्रति प्रत्यागन्तुं बाध्यन्ते।
अतः तेन भारत-सर्वकारं प्रति आग्रहः कृतः यत् सर्वकारी-निजी-क्षेत्रयोः सर्वत्र अन्त्येष्टि-संस्कारं कुर्वतां कर्मचारिणां कृते त्रयोदश-दिनात्मकः अनिवार्यः सवैतनिक-शोक-अवकाशः घोषितः भवेत्, यः आकस्मिक-अवकाशात् अर्जित-अवकाशात् च पृथक् व्यवस्थितः स्यात्।
---------------
हिन्दुस्थान समाचार