Enter your Email Address to subscribe to our newsletters


भराड़ीसैंणम्, 12 मार्चमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे प्रातःकाले भराडीसैंण (गैरसैंण) क्षेत्रस्य भ्रमणं कृतवान्। अस्मिन् अवसरे सः भराडीदेवीमन्दिरं प्राप्त्वा मातुः श्रीचरणयोः नमनं कृत्वा पूजाअर्चनां कृतवान्।
अस्मिन् समये मुख्यमन्त्री धामी प्रदेशस्य देवतुल्यजनानां सुखसमृद्धये, खुशहाल्यै तथा उत्तराखण्डराज्यस्य निरन्तरप्रगत्यै मातरं प्रति प्रार्थनां कृतवान्। मुख्यमन्त्री मन्दिरे विधिविधानपूर्वकं पूजाअर्चनां कृत्वा राज्यस्य उन्नत्यै जनकल्याणाय च कामनां कृतवान्। तेन उक्तं यत् देवभूमेः समृद्धाः सांस्कृतिकाः आध्यात्मिकाश्च परम्पराः राज्यस्य विकासाय प्रेरणास्ति।
भ्रमणकाले मुख्यमन्त्री क्षेत्रस्य व्यवस्थाः अपि अवलोकितवान् तथा स्थानीयजनैः सह संवादं कृतवान्। अस्मिन् अवसरे अधिकारिणः स्थानीयजनप्रतिनिधयः च उपस्थिताः आसन्।
अद्यतनदिनेभ्यः मुख्यमन्त्री धामी भराडीसैंण (गैरसैंण) क्षेत्रे विधानसभायाः बजटसत्रस्य निमित्तेन उपस्थितः अस्ति। मन्दिरे दर्शनकाले स्थानीयजनाः अपि मुख्यमन्त्रिणं स्वागतं कृतवन्तः।
हिन्दुस्थान समाचार