Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् कृषिक्षेत्रे महिलानां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति तथा ताभ्यः नीतिनिर्माणे निर्णयप्रक्रियायां च नेतृत्वपदेषु अधिकाः अवसराः दातव्याः। महिलानां व्यापकभागीदारेण कृषिक्षेत्रे लैङ्गिकसमावेशीविकासस्य प्रवर्धनं भविष्यति।
राष्ट्रपतिः अद्य अत्र ग्लोबल कॉन्फ्रेंस ऑन द रोल ऑफ वीमेन इन एग्रीफूड सिस्टम्स २०२६ नामकस्य सम्मेलनस्य उद्घाटनसत्रं सम्बोधयन्ती आसीत्। ताभिः उक्तं यत् महिलाः बीजरोपणं कर्तनस्य प्रसंस्करणं विपण्यां प्रति फसलप्रेषणं च सहितं कृषेः प्रायः सर्वासु क्रियासु महत्त्वपूर्णां भूमिकां निर्वहन्ति। तदतिरिक्तं ताः मत्स्यपालने मधुमक्षिकापालने पशुपालने वनउत्पादोपयोगे तथा कृषिआधारितउद्यमेषु अपि निरन्तरं योगदानं ददति। महिलाः कृषि अर्थव्यवस्थां सुदृढां कर्तुं अमूल्यं योगदानं कुर्वन्ति।
राष्ट्रपतिः अवदत् यत् राज्यकृषिविश्वविद्यालयेषु सर्वेषां छात्राणां मध्ये पञ्चाशत् प्रतिशताधिकाः छात्र्यः सन्ति तथा अन्येषु विश्वविद्यालयेषु षष्टि प्रतिशताधिकाः छात्र्यः सन्ति। एताः छात्र्यः शैक्षणिकप्रदर्शने अपि उत्कृष्टाः सन्ति। अतः सरकारस्य समाजस्य तथा कृषिक्षेत्रसम्बद्धानां सर्वेषां हितधारकाणां दायित्वं भवति यत् एताः प्रतिभाशालिनीः छात्र्यः प्रोत्साहिताः समर्थिताश्च भवन्तु येन ताः कृषिक्षेत्रे खाद्यउत्पादनक्षेत्रे च नेतृत्वं कर्तुं समर्थाः स्युः।
राष्ट्रपतिः अवदत् यत् मातृत्वे नेतृत्वभावना निहिता अस्ति किन्तु बहुधा सा गृहसीमासु एव सीमिता इति मन्यते। एषा चिन्ता परिवर्तनीया तथा महिलाः कृषिक्षेत्रे नेतृत्वदायित्वं स्वीकर्तुं अग्रे नीयमानाः भवितव्याः। ताभिः उक्तं यत् संयुक्तराष्ट्रसंघेन वर्षम् २०२६ “इंटरनेशनल ईयर ऑफ द वुमन फार्मर” इति घोषितम्। अस्य उद्देश्यं कृषिखाद्यमूल्यशृंखलायां लैङ्गिकान्तरस्य न्यूनीकरणं तथा महिलानां नेतृत्वभूमिकायाः प्रवर्धनम् अस्ति।
राष्ट्रपतिः अवदत् यत् महिलाः भूमेः औपचारिकस्वामित्वेन तकनीकीज्ञानस्य वित्तीयसंसाधनानां तथा अन्यसहयोगव्यवस्थानां सह सम्बद्धाः कर्तव्याः। ताभिः सन्तोषः व्यक्तः यत् गतदशके भारतदेशेन महिलानां कृषिक्षेत्रे सशक्तीकरणाय अनेके प्रयत्नाः कृताः। महिला नेतृत्वयुक्ताः स्वयं सहायता समूहाः तथा किसान उत्पादक संगठनाः इत्यादयः पहलाः अस्मिन् दिशि प्रभावी सिद्धाः।
ताभिः उक्तं यत् वैश्विकस्तरे पीपल प्लेनेट प्रॉस्पेरिटी पीस पार्टनरशिप इत्येषां सममहत्त्वे सहमति अभवत्। पीपल आयामे लैङ्गिकसमता विशेषप्राथमिकतया स्वीकरणीया। कृषिसहितेषु सर्वेषु क्षेत्रेषु प्रभावी लैङ्गिकसमावेशेन न केवलं सततविकासलक्ष्याणां प्राप्तिः भविष्यति अपि तु पृथिवी अपि अधिकसंवेदनशीला सामञ्जस्यपूर्णा च भविष्यति।
केंद्रीयकृषि एवं किसानकल्याणमन्त्री शिवराजसिंहचौहान अवदत् यत् भारतीयकृषौ भगिनीनां दुहितॄणां च भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। बीजरोपणात् आरभ्य फसलसङ्ग्रहणं भण्डारणं पर्यन्तं प्रत्येकचरणे महिलाः अग्रे सन्ति। अद्य अस्माकं दुहितरः बहुसंख्यया कृषिशिक्षां प्रति अग्रे गच्छन्ति।
अस्मिन् एव दिशि भारतीयकृषिअनुसन्धानपरिषद् शीघ्रमेव जेंडर प्लेटफॉर्म इति नवपरियोजनां आरम्भयिष्यति या समग्रदेशस्य कृषिअनुसन्धानजालके महिलाकेन्द्रितशोधाय नूतनगति दिशा च दास्यति।
अयं त्रिदिवसीयः सम्मेलनः कृषि विज्ञान उन्नतिसमितिः भारतीयकृषिअनुसन्धानपरिषद् अंताराष्ट्रियकृषिअनुसन्धानसलाहकारसमूहः तथा पौधाकिस्मकृषकअधिकारसंरक्षणप्राधिकरणम् इत्यादिभिः संयुक्तरूपेण आयोजितः अस्ति। अस्य सम्मेलनस्य उद्देश्यं कृषिखाद्यप्रणालीषु महिलानां भागीदारीं मुख्यधारायां आनयितुं तथा अस्मिन् विषये नीतिदृढाधारः सुदृढीकरणाय विचारविमर्शं कर्तुम् अस्ति।
-----------
हिन्दुस्थान समाचार