Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १२ मार्चमासः (हि.स.)। भारतीय–प्राणी–सर्वेक्षण–संस्थया लेपिडोप्टेरा–वर्गस्य लाइकेन–पतंगानां द्वे नूतने प्रजाति आविष्कृते, येन कीट–विज्ञान–क्षेत्रे महत्त्वपूर्णा उपलब्धिः प्राप्ता। अनेन सह भारतीय–हिमालय–प्रदेशात् अन्याः सप्त प्रजातयः अपि प्रथमवारं प्रलेखिताः।
संस्थानस्य गुरुवासरे प्रकाशिते वक्तव्ये उक्तं यत् अस्य अनुसंधानस्य प्रकाशनं द्वितीय–मार्चमासे एकस्यां अन्ताराष्ट्रिय–वर्गिकी–अनुसन्धान–पत्रिकायां कृतम्। अस्मिन् अध्ययनकार्ये भारतीय–वैज्ञानिक–दलस्य सदस्यैः एतासां नूतन–प्रजातीनां वैज्ञानिक–विवरणं प्रस्तुतम्।
भारतीय–प्राणी–सर्वेक्षण–संस्थायाः निदेशिका डॉ.धृति–बनर्जी एतां उपलब्धिं महत्त्वपूर्णां निरूप्य अवदत् यत् एतत् अन्वेषणं भारतदेशे पतंगानां जैव–विविधताया: प्रलेखनकार्ये महत्त्वपूर्णं योगदानं ददाति। तया उक्तं यत् लेपिडोप्टेरा–इत्यादीनां अल्प–अध्ययित–समूहानां विषये अनुसन्धानं पारिस्थितिकी–तन्त्रस्य कार्यप्रणालीं ज्ञातुं तथा हिमालय–प्रदेशे वायु–प्रदूषण–संकेतक–जीवानां परिचयं कर्तुं अत्यावश्यकम्। एषा सफलता जैव–विविधता–समृद्धेषु क्षेत्रेषु निरन्तर–वर्गिकी–अनुसन्धानस्य आवश्यकताम् अपि सूचयति।
अस्मिन् अनुसंधानदले डॉ.नवनीत–सिंहः, डॉ. सन्तोषसिंहः तथा शोधार्थिनी सृष्टि–भट्टाचार्या सम्मिलिताः सन्ति। एतासां प्रजातीनां परिचयः सिक्किम–राज्यस्य गोलितार–प्रदेशात् तथा पश्चिम–बङ्ग–राज्यस्य पानीझोरा–प्रदेशात् संगृहीतानां नमूनानां अध्ययनस्य आधारेण कृतः।
वैज्ञानिकानां कथनानुसारं एतासां प्रजातीनां चिह्नीकरणं शरीर–रचना, पक्ष्मानां वर्ण–रूप–विन्यासः, सूक्ष्म–शारीरिक–संरचना तथा प्रजनन–अङ्गानां विशेष–रचनाया: आधारेण कृतम्। लाइकेन–पतंगानां पारिस्थितिकी–तन्त्रे विशेषं महत्त्वम् अस्ति, यतः तेषां शिशवः लाइकेन–वनस्पतिषु आश्रिताः भवन्ति। लाइकेन–वनस्पतयः वायु–प्रदूषणं प्रति अत्यन्तं संवेदनशीलाः भवन्ति, अतः एताः प्रजातयः पर्यावरणस्य तथा वायु–गुणवत्ताया: प्राकृतिक–संकेतकाः इति अपि मन्यन्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani