नूतनदिल्ल्याः अमृत मित्र महोत्सवे मध्यप्रदेशस्य 300 महिलाः भविष्यन्ति सम्मिलन्ति
- केंद्रीय मंत्री मनोहर लालः उत्कृष्टं कार्यं कर्त्र्यः महिलाः करिष्यन्ति सम्मानिताः भोपालम्, 13 मार्चमासः (हि.स.)। नवदिल्ली नगरे अद्य शुक्रवासरे आयोजिते अमृतमित्रमहोत्सवे मध्यप्रदेशस्य त्रिशताः महिलाः सहभागिन्यः भविष्यन्ति। अस्मिन् महोत्सवे उ
अमृत मित्र महोत्सव में मप्र की महिलाएं होंगी शामिल


- केंद्रीय मंत्री मनोहर लालः उत्कृष्टं कार्यं कर्त्र्यः महिलाः करिष्यन्ति सम्मानिताः

भोपालम्, 13 मार्चमासः (हि.स.)।

नवदिल्ली नगरे अद्य शुक्रवासरे आयोजिते अमृतमित्रमहोत्सवे मध्यप्रदेशस्य त्रिशताः महिलाः सहभागिन्यः भविष्यन्ति। अस्मिन् महोत्सवे उत्तरप्रदेश, हरियाणा, महाराष्ट्र तथा राजस्थानादिभ्यः देशस्य विविधराज्येभ्यः अमृतमित्रमहिलाः अपि सम्मिलिताः भवन्ति।

मध्यप्रदेशस्य नगरीयप्रशासनायुक्तः संकेतभोंडवे उक्तवान् यत् विभागेन नगरीयमहिलानां आर्थिकसामाजिकरूपेण सशक्तीकरणार्थं निरन्तरप्रयत्नाः क्रियन्ते। अधुना राज्यस्य पञ्चपञ्चाशत् नगरीयनिकायेषु त्रिशतद्वादश स्वसहायतासमूहानां एकसहस्र अष्टाविंशतिः महिलाः अमृतमित्ररूपेण ‘जलस्य गुणवत्तापरीक्षणम्’ इत्यादि महत्त्वपूर्णदायित्वं प्रापितवन्त्यः। एते समूहाः सार्वजनिकोद्यानानां संरक्षणपालनकार्ये तथा केन्द्रसरकारस्य ‘विमेन फॉर ट्रीज’ कार्यक्रमस्य अन्तर्गतं वृक्षारोपणं तेषां संरक्षणं च सफलतया निर्वहन्ति।

तेन उक्तं यत् भारतसरकारस्य आवासनशहरीकार्य मन्त्रालयेन अमृत २.० योजनायाः अन्तर्गतं स्वसहायतासमूहस्य महिलानां अतुलनीययोगदानं प्रकाशयितुं अद्य नवदिल्लीस्थिते प्रतिष्ठिते ‘भारत मण्डपम्’ स्थले “अमृतमित्रमहोत्सवः” इत्यस्य भव्यआयोजनं क्रियते। अस्मिन् राष्ट्रियसमागमे देशस्य विभिन्नप्रदेशेभ्यः अमृतमित्ररूपेण कार्यरताः स्वसहायतासमूहस्य महिलाः, नगरीयनिकायप्रतिनिधयः तथा वरिष्ठाधिकारीणः सहभागं करिष्यन्ति। तत्र मध्यप्रदेशस्य प्रायः त्रिशताः महिलाः उत्साहेन भागं ग्रहीष्यन्ति।

अस्मिन् अवसरॆ केन्द्रीयआवासनशहरीकार्यमन्त्री मनोहरलालखट्टरः अमृतमित्रपहलायाः अन्तर्गतं जलसंरक्षणे, स्वच्छतायां तथा नगरीयप्रबन्धने उत्कृष्टप्रदर्शनं कृतवतीः महिलाः सम्मानयिष्यति। एषः कार्यक्रमः उत्कृष्टकार्यकर्तॄणां कार्याणि प्रसिद्धानि करिष्यति तथा महिलानेतृत्वेन सततशहरीविकासस्य संकल्पनां अपि सुदृढां करिष्यति।

नगरीयप्रशासनायुक्तः संकेतभोंडवे सर्वाः अमृतमित्रमहिलाः अभिनन्द्य तासां उज्ज्वलभविष्यस्य कामनां कृतवान्। तेन उक्तं यत् अमृतमित्रपहलाः नगरीयविकासे महिलानां सक्रियसहभागिता तथा नेतृत्वस्य प्रेरकं उदाहरणम् अस्ति। सः विश्वासं व्यक्तवान् यत् मध्यप्रदेशस्य महिलाः अस्मिन् राष्ट्रियमञ्चे राज्यस्य नवाचारान् उत्कृष्टकार्याणि च प्रभावीरीत्या प्रस्तुय अन्येषां राज्येषां कृते प्रेरणास्रोताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार