Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 13 मार्चमासः (हि.स.)। असमप्रदेशस्य भारतीयजनतादलस्य अध्यक्षः तथा सांसदः दिलीपसैकियः प्रख्यातक्रीडापत्रकारस्य, क्रीडासंयोजकस्य, निर्णायकस्य तथा समालोचकस्य प्रेमधरशर्मणः निधनसम्बन्धे गहनं दुःखं शोकं च व्यक्तवान्। तेन उक्तं यत् तस्य निधनं असमस्य क्रीडाजगतः कृते अपूरणीयहानिः अस्ति।
स्वीयवक्तव्ये दिलीपसैकियेन उक्तं यत् स्वर्गीयः प्रेमधरशर्मा असमप्रदेशे क्रीडाक्षेत्रे उल्लेखनीयम् योगदानम् अकरोत्। १९७० वर्षात् १९९५ वर्षपर्यन्तं सः प्रतिष्ठितायाः बोरदोलोई ट्रॉफी सहितं राज्यस्य विभिन्नेषु पादकन्दुकस्पर्धासु महान् समर्पणेन व्यावसायिकतया च निर्णायकः (रेफरी) रूपेण कार्यं कृतवान्।
तस्य अतिरिक्तं सः समालोचकः रूपेण अपि कार्यं कृतवान् तथा आकाशवाण्याः प्रसारणमाध्यमेन पादकन्दुकक्रीडायाः रोमाञ्चकक्षणान् जनसामान्यपर्यन्तं प्रापितवान्। कदाचित् कालः अपि आसीत् यदा क्रीडाप्रेमिणः तस्य विशिष्टस्वरेण बोरदोलोई ट्रॉफी तथा असमस्य अन्येषां प्रमुखपादकन्दुकस्पर्धानां समालोचनां श्रोतुं अत्यन्तं उत्सुकतया प्रतीक्षां कुर्वन्ति स्म।
सैकियेन अग्रे अपि उक्तं यत् प्रेमधरशर्मणा क्रीडाक्षेत्रे कृतं योगदानं सर्वदा स्मरणीयं भविष्यति। तेन दिवंगतात्मनः चिरशान्तये प्रार्थना कृता तथा शोकसंतप्तपरिवारजनानां प्रति हार्दिकाः संवेदनाः व्यक्ताः।---------------------
हिन्दुस्थान समाचार