Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 13 मार्चमासः (हि.स.)। असमे भारतीय जनतादलस्य प्रदेश प्रवक्ता जयंत कुमार गोस्वामी आरोपं कृतवान् यत् असमस्य प्रियः कलाकारः जुबीन गर्ग इत्यस्य अकालमृत्योः अनन्तरं कांग्रेसदलं तं पुनः पुनः राजनीतिकक्षेत्रे आकर्षयति तथा अस्य महान् कलाकारस्य रचनाः विकृतरूपेण प्रस्तुतयति।
अटल बिहारी वाजपेयी भवन इत्यत्र शुक्रवासरे आयोजितस्य संवाददाता सम्मेलनस्य सम्बोधने भाजपा प्रवक्ता उक्तवान् यत् किञ्चित् दिनपूर्वं कांग्रेसाध्यक्षः तथा लोकसभा सांसदः गौरव गोगोई जुबीन गर्गस्य अन्तिमां रचनां “रोई रोई बिनाले” नामकस्य चलचित्रस्य नाम मिथ्यारूपेण प्रस्तुतवान्। सः माध्यमेषु तस्य नाम “रोई रोई बिनालोई” इति कथयन् प्रकाशितवान्।
तेन अनन्तरं सः अवदत् यत् ह्यः कांग्रेसस्य राष्ट्रियप्रवक्ता पवन खेड़ा अपि पुनः चलचित्रस्य नाम विकृत्य राष्ट्रीय तथा राज्यस्तरीय माध्यमेषु तस्य नाम “रोई रोई केतेकी” इति उक्तवान्। एतेषां वक्तव्यनामां माध्यमेन न केवलं दिवंगतस्य कलाकारस्य रचनानां अपमानः कृतः, अपि तु स्वयमेव कलाकारस्य अपमानः अपि जातः।
प्रवक्ता एतदपि उक्तवान् यत् पूर्वं अपि कांग्रेसाध्यक्षः मल्लिकार्जुन खड़गे दिवंगताय डॉ. भूपेन हजारिका महोदयाय भारतरत्नसम्मानस्य प्रदाने आलोचनां कृतवान्, येन अस्य महान् व्यक्तित्वस्य रचनानां तथा तस्य विरासतस्य अपमानः अभवत्।-------------------
हिन्दुस्थान समाचार