Enter your Email Address to subscribe to our newsletters

रायपुरम्, 13 मार्चमासः (हि.स.)।
मुख्यमंत्री विष्णुदेवसायः अद्य विधानसभायाः राजस्वसत्रस्य समये अविभक्तमध्यप्रदेशविधानसभायाः पूर्वसदस्या श्रीमती मङ्गलीबाईरावटे इत्यस्याः आकस्मिकनिधने गहनं शोकं व्यक्तवान्।
मुख्यमन्त्रिणा विष्णुदेवसायेन उक्तं यत् स्वर्गीया मङ्गलीबाईरावटे अत्यन्तं सरला, विनया तथा समाजसेवायै समर्पितव्यक्तित्वस्य धारिणी आसीत्। सा स्वजीवनकाले समाजस्य जनानां सुखदुःखयोः सर्वदा सहभागित्वं वहन्ती सेवा सहयोगयोः भावेन कार्यं कृतवती।
मुख्यमन्त्रिणा उक्तं यत् तस्याः व्यक्तित्वे मानवीयसंवेदनाः, सामाजिकप्रतिबद्धता तथा सेवाभावः स्पष्टतया परिलक्षितः आसीत्। तस्याः निधनात् समाजः एकं प्रेरणादायकं व्यक्तित्वं नष्टवान्, यस्य अभावः सर्वदा अनुभूयते।
मुख्यमन्त्री विष्णुदेवसायः सदनस्य पक्षतः दिवंगतात्मने विनम्रां श्रद्धाञ्जलिं अर्पयन् शोकसन्तप्तपरिजनानां प्रति गाढां संवेदनां व्यक्तवान्। तेन ईश्वरं प्रति प्रार्थना कृता यत् दिवंगतात्मानं स्वश्रीचरणयोः स्थानं ददातु तथा परिजनान् एतस्य महतो दुःखस्य सहनाय शक्तिं प्रददातु।
हिन्दुस्थान समाचार