प्राकृतिक आपदा प्रभावितेभ्यः 6 राज्येभ्यः 1,912 कोटिरूप्यकमिता अतिरिक्ता केंद्रीय सहायता
नव दिल्ली, १३ मार्चमासः (हि.स.)। केंद्रीयगृहमन्त्रिणः अमितशाहस्य अध्यक्षतायां गठिता उच्चस्तरीयसमितिः (एचएलसी) वर्षे २०२५ मध्ये जातानां बाढाः, आकस्मिकप्रवाहाः, मेघविस्फोटः, भूक्षयः तथा चक्रवातः ‘मोंथा’ इत्येतैः प्रभावितानां षण्णां राज्याणां कृते १९१
प्राकृतिक आपदा प्रभावितेभ्यः 6 राज्येभ्यः 1,912 कोटिरूप्यकमिता अतिरिक्ता केंद्रीय सहायता


नव दिल्ली, १३ मार्चमासः (हि.स.)। केंद्रीयगृहमन्त्रिणः अमितशाहस्य अध्यक्षतायां गठिता उच्चस्तरीयसमितिः (एचएलसी) वर्षे २०२५ मध्ये जातानां बाढाः, आकस्मिकप्रवाहाः, मेघविस्फोटः, भूक्षयः तथा चक्रवातः ‘मोंथा’ इत्येतैः प्रभावितानां षण्णां राज्याणां कृते १९१२.९९ कोटिरूप्यकाणां अतिरिक्तकेंद्रीयसहाय्यं अनुमोदितवती। एषा सहायता राष्ट्रिय-आपदाप्रतिक्रियाकोषात् (एनडीआरएफ) प्रदास्यते।

गृहमन्त्रालयेन शुक्रवासरे उक्तं यत् अस्यां राशौ आन्ध्रप्रदेशराज्याय ३४१.४८ कोटिरूप्यकाणि, छत्तीसगढराज्याय १५.७० कोटिरूप्यकाणि, गुजरातराज्याय ७७८.६७ कोटिरूप्यकाणि, हिमाचलप्रदेशराज्याय २८८.३९ कोटिरूप्यकाणि, नागालैंडराज्याय १५८.४१ कोटिरूप्यकाणि तथा जम्मूकश्मीरकेन्द्रशासितप्रदेशाय ३३०.३४ कोटिरूप्यकाणि दास्यन्ते।

एषा सहायता राज्येषु विद्यमानस्य राज्यआपदाप्रतिक्रियाकोषस्य (एसडीआरएफ) वर्षारम्भे अवशिष्टधनस्य ५० प्रतिशतसमायोजनस्य अधीनं भविष्यति।

सरकारः प्राकृतिकआपदासमये राज्यैः सह स्कन्धेन स्कन्धं मिलित्वा तिष्ठति तथा सर्वप्रकारेण साहाय्यं प्रदातुं प्रयतते।

वित्तवर्षे २०२५–२६ मध्ये केन्द्रसरकारेण एसडीआरएफ अन्तर्गतं २८ राज्येभ्यः २०७३५.२० कोटिरूप्यकाणि तथा एनडीआरएफ अन्तर्गतं २१ राज्येभ्यः ३६२८.१८ कोटिरूप्यकाणि प्रदत्तानि।

तदतिरिक्तात् राज्यआपदान्यूननीकरणकोषात् (एसडीएमएफ) २३ राज्येभ्यः ५३७३.२० कोटिरूप्यकाणि तथा राष्ट्रीयआपदाशमनकोषात् (एनडीएमएफ) २१ राज्येभ्यः ११८९.५६ कोटिरूप्यकाणि अपि प्रदत्तानि।

हिन्दुस्थान समाचार