मुख्यमंत्रिणा झारखंड पुलिसदलाय 1,485 आधुनिक वाहनानि समर्पितानि, अत्याधुनिकानां 12 नूतनानां स्थानानां कृतः ऑनलाइनशिलान्यासः
रांची, 13 मार्चमासः (हि.स.)। राज्ये विधि-व्यवस्थां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदं गृह्णन् मुख्यमन्त्री हेमन्त सोरेन शुक्रवासरे झारखण्ड विधानसभा-परिसरे आयोजिते समारोहे झारखण्ड पुलिस दलाय कुलं 1,485 आधुनिक-वाहनानां वितरणं कृतवान्। अस्मिन् अ
मुख्यमंत्री सहित अन्य


मुख्यमंत्री नियुक्ति पत्र देते हुए


मुख्यमंत्री सहित अन्य


वाहनों को हरी झंडी दिखाते


वाहन की तस्वीर


रांची, 13 मार्चमासः (हि.स.)।

राज्ये विधि-व्यवस्थां अधिकं सुदृढां कर्तुं महत्त्वपूर्णं पदं गृह्णन् मुख्यमन्त्री हेमन्त सोरेन शुक्रवासरे झारखण्ड विधानसभा-परिसरे आयोजिते समारोहे झारखण्ड पुलिस दलाय कुलं 1,485 आधुनिक-वाहनानां वितरणं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री राज्यस्य विभिन्नेषु जनपदेषु स्थाप्यमानानां 12 नूतन-पुलिस-स्थानानां ऑनलाइन-शिलान्यासं अपि कृतवान्। सः दूरनियन्त्रण-यन्त्रस्य (रिमोट) बटनं निपीड्य एतेषां नूतन-थानानां आधारशिलां स्थापितवान् तथा हरित-ध्वजं प्रदर्श्य पुलिसाय आवंटितान् वाहनान् प्रेषितवान्। कार्यक्रमे सः विभिन्न-श्रेणीषु चयनितान् अभ्यर्थिनः नियुक्तिपत्राणि अपि प्रदत्तवान्।

अस्मिन् अवसरि मुख्यमन्त्री उक्तवान् यत् नगरात् आरभ्य ग्राम्यप्रदेशपर्यन्तं शान्तिः, विधि-व्यवस्था तथा अपराध-नियन्त्रणस्य उत्तरदायित्वं पुलिस-दलस्य एव अस्ति। एतत् सुदृढीकर्तुं आधुनिक-वाहनानां एतत् लोकार्पणं महत्त्वपूर्णं उपलब्धिरूपेण अंकितं भविष्यति। तेन उक्तं यत् नूतन-वाहनानां उपलब्ध्या पुलिस-दलस्य गतिशीलता, प्रतिक्रिया-क्षमता तथा क्षेत्रीय-निगराणी-व्यवस्थायां उल्लेखनीयः सुधारः भविष्यति, येन घटनासु शीघ्र-नियन्त्रणं सम्भविष्यति।

मुख्यमन्त्री पुनः अवदत् यत् अपराध-नियन्त्रणं, नागरिक-सुरक्षा तथा पुलिस-दलस्य आधुनिकीकरणार्थं राज्य-सरकारः निरन्तरं प्रयत्नशीलः अस्ति। तेन आशा व्यक्ता यत् एतेषां आधुनिक-वाहनानां तथा नूतन-थानानां उपलब्ध्या पुलिसस्य कार्यक्षमता, प्रतिक्रिया-कालः तथा क्षेत्रीय-निगराणी-तन्त्रे गुणात्मकः सुधारः भविष्यति, येन सामान्यजनानां कृते शीघ्रं विश्वसनीयञ्च सुरक्षा-सेवा सुनिश्चिताः भविष्यन्ति। सः विश्वासं व्यक्तवान् यत् आगामिकाले राज्ये उत्तमा निगराणी-व्यवस्था विकसिताः भविष्यन्ति तथा अपराधिनः अपराधं कर्तुं पूर्वं बहुवारं चिन्तयितुं बाध्याः भविष्यन्ति।

मुख्यमन्त्री अवदत् यत् राज्यस्य गठनात् अनन्तरं प्रथमवारं एतावता संख्यया आधुनिक-वाहनानि झारखण्ड पुलिसाय एकत्र प्रदत्तानि सन्ति। एषा उपलब्धिः 25 वर्षाणि पूर्णीकृतस्य झारखण्डस्य यात्रायां पुलिस-आधुनिकीकरणस्य दिशि एकं महत्त्वपूर्णं मील-शिलारूपं भविष्यति। सः उक्तवान् यत् नूतन-प्रौद्योगिकीयुक्तानां वाहनानां संसाधनानां च माध्यमेन पुलिस-विभागः स्वकार्यस्य नूतन-आयामान् स्प्रष्टुं निरन्तरं प्रयत्नशीलः अस्ति।

मुख्यमन्त्री अवदत् यत् राज्ये घटितेषु अनेकासु घटनासु झारखण्ड पुलिसेन शीघ्रं सार्थकं च कार्यं कृतम्, येन जनविश्वासः दृढीकृतः। सः अद्यतनं घटितस्य एकस्य जघन्य-प्रकरणस्य उदाहरणं दत्त्वा उक्तवान् यत् धुर्वा थाना क्षेत्रे द्वयोः नाबालकयोः अपहरण-प्रकरणे झारखण्ड पुलिसस्य तत्पर-प्रयत्नैः शीघ्रमेव बालकौ उद्धृतौ तथा अन्तर्राज्यीय-स्तरे सक्रियस्य बाल-अपहर्तृ-गणस्य अपि उद्घाटनं कृतम्। एतादृशानि उदाहरणानि दर्शयन्ति यत् झारखण्ड पुलिस नूतन-प्रौद्योगिकी तथा नवोन्मेषस्य माध्यमेन अपराध-निवारणे प्रभावीरीत्या कार्यं करोति।

मुख्यमन्त्री सामान्य-नागरिकान् अपि आह्वयत् यत् ते विधि-व्यवस्था-रक्षणे पुलिसदलाय सकारात्मकं सहयोगं ददतु। तेन उक्तं यत् पुलिसस्य सह सर्वेषां नागरिकानां अपि उत्तरदायित्वं अस्ति यत् समाजे वर्धमानानां अपराधानां नियन्त्रणाय जागरूकता वर्धयन्तु, समये सूचना ददतु तथा पुलिसेन सह समन्वितं सहयोगं स्थापयन्तु। जनानां पुलिसदलस्य च मध्ये विश्वासः, संवादः तथा सहयोगः यावत् दृढः भविष्यति, तावत् राज्यस्य विधि-व्यवस्था अपि अधिकं सुदृढा भविष्यति।

अस्मिन् अवसरे मुख्यमन्त्री विभिन्नेषु क्षेत्रेषु चयनितान् अभ्यर्थिनः नियुक्तिपत्राणि प्रदाय तान् हार्दिकं अभिनन्दनं शुभाशंसाश्च प्रदत्तवान्। तेन अपेक्षा व्यक्ता यत् ते निष्ठया, ईमानदार्या तथा संवेदनशीलतया राज्यस्य सेवायां स्वयोगदानं दास्यन्ति। समारोहे उपस्थितान् सर्वान् पुलिस-कर्मचारिणः आहूय सः अवदत् यत् ते निष्ठया, संवेदनशीलतया तत्परतया च जनसेवां सर्वोपरि स्थापयन्तु तथा दुर्बल-वञ्चित-वर्गस्य सुरक्षां विशेष-प्राथमिकतया पश्यन्तु।

मुख्यमन्त्री अवदत् यत् प्रथम-चरणे कुलं 636 भ्रमण-वाहनानि तथा 849 द्विचक्र-वाहनानि विभिन्न-जनपदेषु पुलिस-थानेषु च प्रदत्तानि सन्ति। राज्य-सरकारेण झारखण्ड पुलिसाय कुलं 1255 भ्रमण-वाहनानि तथा 1697 द्विचक्र-वाहनानि स्वीकृतानि सन्ति। एतेषु स्वीकृत-वाहनेषु प्रथम-चरणे 636 गश्ती-वाहनानि तथा 849 द्विचक्र-वाहनानि विभिन्न-जनपदेषु पुलिस-थानेषु च आवंटितानि सन्ति। एतानि आधुनिक-वाहनानि गश्ती, शीघ्र-प्रतिक्रिया-कार्य, ग्राम्य-क्षेत्रेषु निगराणी, संवेदनशील-प्रदेशेषु पर्यवेक्षणं तथा अपराध-क्रियाकलापेषु त्वरित-कार्यवाही इत्यादिषु महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

अस्मिन् समारोहे झारखण्ड विधानसभा-अध्यक्षः रवीन्द्र नाथ महतो, मन्त्रिणः राधाकृष्ण किशोर, संजय प्रसाद यादवः, डॉ. इरफ़ान अंसारी, दीपिका पांडेय, शिल्पी नेहा तिर्की, विधायकाः कल्पना सोरेन, मुख्यसचिवः अविनाश कुमार, प्रधानसचिवा (गृह, कारा एवं आपदा प्रबन्धन विभाग) वंदना दादेल, डीजीपी तदाशा मिश्रा तथा झारखण्ड पुलिसस्य वरिष्ठ-अधिकारिणः अन्ये विभागीय-पदाधिकारिणश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार