विद्यालयीय–बालकानां पौष्टिक–भोजनाय हिमाचलप्रदेशाय प्रायः १२२ कोटि–रूप्यकाणां वित्तविवरणम् आवंटितम् — शिक्षा–राज्यमन्त्री
नवदिल्ली, १३ मार्चमासः (हि.स.)।केन्द्रीय–शिक्षा–राज्यमन्त्री जयन्त–चौधरी अवदत् यत् बाल–वाटिका–तथा प्रथमात: अष्टमी–कक्षापर्यन्तं यावत् सर्वकारीय–तथा सर्वकारीय–सहायता–प्राप्त–विद्यालयेषु अध्ययनरतानां बालकानां कृते विद्यालयेषु उष्णं पौष्टिक–भोजनं प्रद
इंदु गोस्वामी।


नवदिल्ली, १३ मार्चमासः (हि.स.)।केन्द्रीय–शिक्षा–राज्यमन्त्री जयन्त–चौधरी अवदत् यत् बाल–वाटिका–तथा प्रथमात: अष्टमी–कक्षापर्यन्तं यावत् सर्वकारीय–तथा सर्वकारीय–सहायता–प्राप्त–विद्यालयेषु अध्ययनरतानां बालकानां कृते विद्यालयेषु उष्णं पौष्टिक–भोजनं प्रदातुं वित्त–वर्षे २०२५–२६ इत्यस्य कृते हिमाचलप्रदेशाय १२१.९० कोटि–रूप्यकाणां वित्तविवरणम् आवंटितम्। अस्मिन् वित्तविवरणे ११०.६६ कोटि–रूप्यकाणि केन्द्रीय–अंशदानरूपेण सन्ति, तथा च ११.२४ कोटि–रूप्यकाणि राज्य–सर्वकारस्य अंशदानं भविष्यति।

केन्द्रीय–राज्यमन्त्री एतां सूचनां इन्दुबाला–गोस्वामी–नाम्नः राज्यसभा–सांसदस्य प्रश्नस्य उत्तररूपेण संसदे अयच्छत्। तेन उक्तं यत् अस्याः योजनायाः अन्तर्गतं अधुना राज्येषु केन्द्रशासित–प्रदेशेषु च स्थितेषु प्रायः १०.३५ लक्ष-विद्यालयेषु अध्ययनरताः ११ कोटि बालकाः उष्णं पौष्टिक–भोजनं प्राप्नुवन्ति। अस्याः योजनायाः कार्यान्वयनस्य प्राथमिक–दायित्वं राज्य–सर्वकाराणां केन्द्रशासित–प्रदेशानां च अस्ति।

पीएम–कुसुम–योजनायाः अन्तर्गतं कृषकाः द्वि–मेगावाट–क्षमतायुक्तं सौर–ऊर्जा–संयंत्रं स्थापयितुं शक्नुवन्ति — ऊर्जा–राज्यमन्त्रीकेन्द्रीय–नवीन–नवीकरण–ऊर्जा–राज्यमन्त्री श्रीपद–येसो–नायक: संसदे अवदत् यत् प्रधानमन्त्री–कुसुम–योजनायाः अन्तर्गतं कश्चन कृषकः स्वयम् अथवा कस्यचित् विकासकर्तुः साहाय्येन स्वभूमौ द्वि–मेगावाट–ऊर्जा–क्षमतायुक्तं सौर–ऊर्जा–संयंत्रं स्थापयितुं शक्नोति। एतत् उत्तरं सः राज्यसभा–सांसदस्य इन्दुबाला–गोस्वामी–प्रश्नस्य प्रत्युत्तररूपेण संसदे दत्तवान्।

तेन उक्तं यत् अस्याः योजनायाः अन्तर्गतं सौर–ऊर्जा–संयंत्र–स्थापनाय कृषकाणां कार्य–क्षमतावृद्ध्यर्थं मन्त्रालयेन समये समये प्रशिक्षण–कार्यक्रमाः अपि आयोज्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता