Enter your Email Address to subscribe to our newsletters

- ललिताभगिनीनां कोषेषु प्राप्स्यति योजनायाः 34तमःराशिः
भोपालम्, 13 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादव अद्य शुक्रवासरे मुख्यमंत्री लाड़ली बहना योजना अन्तर्गत प्रदेशस्य १ कोटि २५ लक्षाधिकानां भगिनीनां कोषेषु १८३६ कोटि रुप्यकाणां अधिकं धनराशिं एकेन क्लिकेन अंतरणं करिष्यति।
जनसम्पर्काधिकारी बिन्दु सुनील अवदत् यत् ग्वालियरजिलस्य घाटीग्रामे स्थिते शबरी माता मंदिर परिसरमध्ये आयोजिते लाड़ली बहना सम्मेलने मुख्यमंत्री एषां धनराशिं योजनायाः ३४तमं किस्तिरूपेण भगिनीनां प्रदास्यति।
सा अपि अवदत् यत् मुख्यमंत्री डॉ. यादव नेतृत्वे प्रदेश सरकार स्त्रीणां आर्थिकसशक्तीकरणं सर्वोच्चप्राथमिकतारूपेण गृह्णाति। अस्याः योजनायाः अन्तर्गतं नवम्बरमासात् मासिकसहाय्ये २५० रुप्यकाणां वृद्धिः कृता, यस्मात् अधुना पात्राः हितग्राहकभगिन्यः प्रतिमासं १५०० रुप्यकाणां आर्थिकसहाय्यं प्राप्नुवन्ति।
गौरतलं यत् प्रदेशे जून २०२३ तः आरब्धा एषा योजना स्त्रीणां जीवनस्य आर्थिकात्मविश्वासस्य सामाजिकसम्मानस्य च नूतनं आधारं जाता। जून २०२३ तः फरवरी २०२६ पर्यन्तं योजनायाः अन्तर्गतं ३३ किस्तयः नियमितरूपेण अंतरणं कृताः। अस्मिन् अवधौ ५४,१४० कोटि रुप्यकाणि भगिनीनां खातेषु प्रत्यक्षं अंतरणं कृतम्।
प्रदेश सरकार अधुना योजनासम्बद्धाः महिलाः केवलं आर्थिकसहाय्ये न सीमिताः भविष्यन्ति, अपि तु ताः कौशलवृद्धि, रोजगार, स्वरोज़गार अवसरैः अपि सम्बद्धाः करिष्यन्ति, येन ताः आत्मनिर्भराः भूत्वा स्वपरिवारस्य समाजस्य च प्रगतौ महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।
मुख्यमंत्री १२२ कोटि लागतस्य विकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति
जनसम्पर्काधिकारिणः अनुसारं मुख्यमंत्री डॉ. यादव लाड़ली बहना सम्मेलने ग्वालियरजिलान्तर्गतं लगभग १२२ कोटि रुप्यकाणां लागतस्य ५४ कार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। एतेषु लगभग ६२ कोटि लागतस्य १९ कार्याणां लोकार्पणं तथा ६० कोटि लागतस्य ३५ कार्याणां भूमिपूजनं अन्तर्भवति।
ग्वालियरजनपदस्य जिलाधिकारी रुचिका चौहान कार्यक्रमस्थले ग्रीष्मकालं दृष्ट्वा पेयजलस्य पर्याप्तव्यवस्था कर्तुं सम्बन्धिताधिकारिणः निर्देशितवती। सा उक्तवती यत् पार्किङ्गस्थानात् लाड़लीभगिन्यः सुविधया कार्यक्रमस्थले निर्धारितक्षेत्रं प्रति गन्तुं व्यवस्थाः क्रियन्ताम्।
प्रस्तावितकार्यक्रमानुसारं मुख्यमंत्री डॉ. यादव वायुमार्गेण मध्यान्हे राजमाता विजयाराजे सिंधिया एयर टर्मिनल महाराजपुरा आगमिष्यति। तस्मात् हेलिकॉप्टरद्वारा घाटीग्रामस्य समीपे राष्ट्रीयराजमार्गे स्थितं देवनारायण मंदिर परिसरे निर्मितं विमानस्थानकं गमिष्यति।
मुख्यमंत्री अत्र स्थिते देवनारायण मंदिर तथा कार्यक्रमस्थलस्य समीपे स्थिते शबरी माता मंदिर अपि प्रदेशस्य सुखसमृद्धये पूजाअर्चनां करिष्यति। ततः अनन्तरं लाड़ली बहना सम्मेलने सहभागी भविष्यति।
कार्यक्रमस्य अनन्तरं हेलिकॉप्टरद्वारा पुनः विमानतलं गत्वा वायुमार्गेण भोपालं प्रति प्रस्थानं करिष्यति।
लाड़ली बहना सम्मेलने केन्द्रीय संचार एवं पूर्वोत्तर क्षेत्र विकास मंत्री ज्योतिरादित्य सिंधिया, विधानसभा अध्यक्ष नरेन्द्र सिंह तोमर, जिल्लस्य प्रभारीमंत्री तुलसीराम सिलावट, राज्यसर्वकारस्य मंत्री नारायण सिंह कुशवाह तथा प्रद्युम्न सिंह तोमर, सांसद भारत सिंह कुशवाह, विधायक मोहन सिंह राठौर, जिला पंचायत अध्यक्ष दुर्गेश कुंवर सिंह जाटवः इत्यादयः अन्ये जनप्रतिनिधयः आमन्त्रिताः सन्ति।
---------------
हिन्दुस्थान समाचार