प्रधानमन्त्री नरेन्द्र–मोदी जोस–एण्टोनियो–कास्ट-इत्यस्मै चिली–देशस्य राष्ट्रपतित्व–प्राप्तये अभिनन्दनं दत्तवान्
नवदिल्ली, १३ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी चिली–देशस्य नवनियुक्त–राष्ट्रपतये जोस–एण्टोनियो–कास्ट–इत्यस्मै पदभार–ग्रहणस्य अवसरे शुभकामनाः प्रेषितवान् तथा च उभय–देशयोः सम्बन्धान् अधिकं सुदृढीकर्तुं आशां व्यक्तवान्। प्रधानमन्त्री मोदी
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, १३ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र–मोदी चिली–देशस्य नवनियुक्त–राष्ट्रपतये जोस–एण्टोनियो–कास्ट–इत्यस्मै पदभार–ग्रहणस्य अवसरे शुभकामनाः प्रेषितवान् तथा च उभय–देशयोः सम्बन्धान् अधिकं सुदृढीकर्तुं आशां व्यक्तवान्।

प्रधानमन्त्री मोदी सामाजिक–माध्यम–मञ्चे ‘एक्स’ इत्यत्र स्वसन्देशे अवदत् यत् सः भारत–चिली–देशयोः मध्ये विद्यमानान् सौहार्दपूर्णान् मैत्रीपूर्णान् सम्बन्धान् अधिकं सुदृढीकर्तुं तेन सह मिलित्वा कार्यं कर्तुं उत्सुकः अस्ति।

तेन उक्तं यत् उभय–देशयोः मध्ये व्यापार–प्रौद्योगिकी–ऊर्जा–इत्यादिषु महत्त्वपूर्णेषु क्षेत्रेषु सहयोग–वृद्धेः विस्तृताः सम्भावनाः सन्ति। प्रधानमन्त्री जोस–एण्टोनियो–कास्ट–इत्यस्य सफलं प्रभावात्मकं कार्यकालं अपि कामितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता