Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 मार्चमासः (हि.स.)।राष्ट्रिय स्वयंसेवक संघस्य त्रिदिवसीया अखिलभारतीयप्रतिनिधिसभा अद्य हरियाणाराज्यस्य समालखा नगरे सरसंघचालकेन डॉ मोहन भागवत तथा सरकार्यवाहेन दत्तात्रेय होसबाले इत्येताभ्यां दीपप्रज्वलनेन विधिवत् उद्घाटिता। अस्मिन् अवसरे सरकार्यवाहेन वार्षिकप्रतिवेदनम् प्रस्तुतम्। संघेन बांग्लादेशसरकारम् पुनः अपि आग्रहः कृतः यत् तत्र स्थितानां हिन्दूनां अधिकाराणां संरक्षणम् करोतु।
प्रारम्भिकेषु सत्रेषु दिवंगतव्यक्तिभ्यः श्रद्धाञ्जलिः अर्पिता तथा नक्सलप्रभावितप्रदेशेषु शासनस्य प्रयासैः प्राप्तस्य सुधारस्य स्वागतं कृतम्। मणिपुरे अपि संघस्य प्रयासैः प्राप्तानां परिणामानां स्वागतं कृतम्।
प्रतिनिधिसभायाः आरम्भानन्तरम् सहसरकार्यवाहः सी आर मुकुंद अखिलभारतीयप्रचारप्रमुखेन सुनील आंबेकर सह पत्रकारवार्तां सम्बोधितवान्।
अस्मिन् सन्दर्भे सी आर मुकुंद अवदत् यत् सरकार्यवाहेन स्वप्रतिवेदने उक्तम् यत् संघस्य शताब्दीवर्षे कृतैः प्रयासैः चत्वारिसहस्राधिकेषु स्थानेषु पञ्चसहस्राधिकानां शाखानां वृद्धिः अभवत्। गृहसंपर्क-अभियानस्य अन्तर्गतं संघस्य कार्यकर्तारः दशकोटिपरिवारान् प्रति सम्पर्कम् अकरोत्। त्रिलक्षाधिकेषु ग्रामेषु अपि संघकार्यकर्तारः गतवन्तः।
केरलराज्यस्य उदाहरणं दत्त्वा तेन उक्तम् यत् तत्र संघकार्यकर्तारः साम्यवादविचारधारायुक्तपरिवारैः सह मुसलमान तथा क्रिश्चियन परिवारैः अपि मिलितवन्तः। केवलं केरलराज्ये एव पञ्चपञ्चाशत्सहस्राधिकेषु मुसलमानपरिवारेषु तथा च चतुर्पञ्चाशत्सहस्राधिकेषु क्रिश्चियनपरिवारेषु संघकार्यकर्तारः संघसमाजसम्बद्धविषयान् वहन्तः गतवन्तः।
तेन अपि उक्तम् यत् शताब्दीवर्षस्य अवसरस्य कारणेन षट्त्रिंशत्सहस्राधिकेषु स्थानेषु हिन्दुसम्मेलनानि आयोजितानि। अस्मिन् काले सरसंघचालकस्य मोहन भागवतस्य देशस्य चतुर्षु महानगरेषु व्याख्यानमाला अपि आयोजिताः। अस्यां व्याख्यानमालायां सरसंघचालकेन विंशतिघण्टाधिकसमये सहस्राधिकानां प्रश्नानाम् उत्तराणि दत्तानि।
---------------
हिन्दुस्थान समाचार