Enter your Email Address to subscribe to our newsletters


- आईआईएमसीत्यस्य प्रो. राकेशो मूल पांडुलिपीनां प्रपत्राणामकरोद्याचनाम्
लखनऊ, 13 मार्चमासः (हि.स.)।
मनुस्मृतिं प्रति पुनरपि विवादः तीव्रतां गच्छति इव दृश्यते। केचन विद्वांसः दावा कुर्वन्ति यत् अद्य प्रचलितायाः मनुस्मृतेः अनेकाः भागाः ब्रिटिशकालस्य समये संपादिताः अथवा प्रक्षिप्ताः अपि स्युः। अस्मिन् विषये भारतीयजनसंचारसंस्थानस्य (आईआईएमसी) प्रो राकेशउपाध्यायः ऐतिहासिकदस्तावेजानां पाण्डुलिपीनां च पुनः परीक्षणस्य आवश्यकता इति मागं कृतवान्।
शुक्रवासरे प्रो राकेशउपाध्यायः उक्तवान् यत् मनुस्मृतेः विषये एतत् ज्ञातुं यत् सा कदा लिखिता इति महत्त्वपूर्णं तावत् एव नास्ति, अपितु अस्मिन् ग्रन्थे समयसमये कदा कदा संशोधनं वा प्रक्षेपणं कृतम् इति प्रश्नः अधिकं महत्त्वपूर्णः अस्ति। कथ्यते यत् मनुस्मृतेः प्रथमः मुद्रितः संस्करणः ब्रिटिशशासनकाले मुद्रणयन्त्रस्य माध्यमेन प्रकाशितः आसीत्।
इतिहासानुसारम् अष्टादशशताब्द्यां ब्रिटिशाधिकारिणां निर्देशेन अस्य ग्रन्थस्य संपादनं प्रकाशनं च कृतम्। तस्मिन् काले हिन्दुसमाजस्य कृते विधिसंहिता निर्मातुं विविधाः पाण्डुलिपयः संगृह्य समितये समर्पिताः आसन्। अतः केचन विद्वांसः आरोपं कुर्वन्ति यत् तस्मिन् प्रक्रियाकाले मूलपाण्डुलिपीनां प्रामाणिकता सम्यक् न परीक्षिता, तथा च सम्भवति यत् विभिन्नस्रोतः प्राप्तानां अंशानां संयोजनेन ग्रन्थः निर्मितः।
एतेन कारणेन मनुस्मृतौ केचन परस्परविरोधिनः श्लोकाः अपि दृश्यन्ते। सम्भवतः अस्य कारणात् मनुस्मृतेः मूलस्वरूपं वर्तमानसंस्करणं च विषये नूतनाः प्रश्नाः उद्भवन्ति।
अस्य सम्पूर्णविषयस्य विषये अनुसन्धानस्य आग्रहं कुर्वन्तः विद्वांसः वदन्ति यत् देशस्य विविधेषु प्राचीनमठेषु, पुस्तकालयेषु तथा राजगृहेषु उपलब्धानां पाण्डुलिपीनां अन्वेषणं कृत्वा तासां वैज्ञानिकाध्ययनं करणीयम्। तेषां मतम् अस्ति यत् यदि प्राचीनाः स्वतन्त्राः पाण्डुलिपयः लभ्यन्ते तर्हि मनुस्मृतेः वास्तविकस्वरूपं ज्ञातुं साहाय्यं भविष्यति।
प्रो राकेशउपाध्यायः उक्तवान् यत् इतिहाससंस्कृतिधर्मसम्बद्धेषु विषयेषु पर्याप्तं शोधं प्रमाणं च विना निष्कर्षः न कर्तव्यः। अतः केन्द्रसरकारं सम्बद्धान् अनुसंधानसंस्थानान् च प्रति तेन आग्रहः कृतः यत् अस्मिन् विषये पारदर्शी व्यापकः च अनुसंधानपरियोजना आरभ्यताम्, येन मनुस्मृतेः मूलस्वरूपसम्बद्धेषु प्रश्नेषु स्पष्टं उत्तरं प्राप्तुं शक्येत।
---------------
हिन्दुस्थान समाचार